ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 5
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्र:
छन्दः - आर्षीगायत्री
स्वरः - षड्जः
न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् । अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म् ॥
स्वर सहित पद पाठन । यम् । शु॒क्रः । न । दुःऽआ॑शीः । न । तृ॒प्राः । उ॒रु॒ऽव्यच॑सम् । अ॒प॒ऽस्पृ॒ण्व॒ते । सु॒ऽहार्द॑म् ॥
स्वर रहित मन्त्र
न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् । अपस्पृण्वते सुहार्दम् ॥
स्वर रहित पद पाठन । यम् । शुक्रः । न । दुःऽआशीः । न । तृप्राः । उरुऽव्यचसम् । अपऽस्पृण्वते । सुऽहार्दम् ॥ ८.२.५
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 5
अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 5
अष्टक » 5; अध्याय » 7; वर्ग » 17; मन्त्र » 5
विषयः - अनयेश्वरस्यागम्यतां दर्शयति ।
पदार्थः -
यः खलु सर्वेश्वरः सर्वात्मा परमात्मास्ति स एकरसेन तिष्ठति न कदापि विकृतिमाप्नोति न कदापि हृष्यति न च क्लिश्यते । यमिह न कोऽपि पदार्थः प्रसादयितुं शक्नोति । तमिह अनभिज्ञा अध्वर्यवः कथमिव विनश्वरैर्द्रव्यैः लोभयन्त इव सन्तोषयितुं यतन्ते । तथापि भक्त्या प्रेम्णा अन्तःकरणेन च जनास्तमेव यदुपासते । सा प्रेमनिर्भरस्थानं मनुष्याणामभीष्टदेवतां प्रति मानसिकभावनास्ति । सर्वभावेन तं प्रसादयितुं न कोऽपि शक्नोति । तथापि साक्षित्वेन भक्तानां सात्त्विकमनोभावं भावयन् संतुष्यत्येव चेतनत्वात् पैतृकवात्सल्यात् सर्वेषां प्राणिनां सुमित्रत्वाच्चेत्यनया दर्शयति । यथा । शुक्रः=विद्यया ज्ञानेन च भासमानस्तपस्वी । यद्वा । दीप्तिमान् सूर्य्यादिपदार्थः । यमिन्द्रम् । न अपस्पृणोति=न प्रीणयति प्रीणयितुं न शक्नोतीत्यर्थः । तथा दुराशीर्योगी समाधिसिद्धः पुरुषः । यद्वा । दुर्निरीक्ष्यं नक्षत्रादि । न अपस्पृणोति=सन्तोषयितुं न शक्नोति । तथा तृप्राः=तर्पका अध्वर्युप्रभृतयो दानाद्युपकारैर्जगत् तोषयितारो वा । न अपस्पृण्वते=न प्रीणयन्ति । किं विशिष्टम् इन्द्रम् । उरुव्यचसम्=उरु विस्तीर्णं व्यचो व्यापनं यस्य स उरुव्यचाः=सर्वव्यापकः सर्वान्तर्यामी वर्तते तमनन्तं महान्तमीश्वरं सान्ताः क्षुद्राः कथमिव सन्तोषयितुं शक्नुयुरिति ध्वनिः । पुनः । सुहार्दम्=सुहृदयं सुमित्रम् । यद्यपि स एकपादेन सर्वमावृत्य तिष्ठति तथापि स हि सर्वेषां सुहृद् वर्तते ॥५ ॥