ऋग्वेद - मण्डल 8/ सूक्त 20/ मन्त्र 23
मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः । यू॒यं स॑खायः सप्तयः ॥
स्वर सहित पद पाठमरु॑तः । मारु॑तस्य । नः॒ । आ । भे॒ष॒जस्य॑ । व॒ह॒त॒ । सु॒ऽदा॒न॒वः॒ । यू॒यम् । स॒खा॒यः॒ । स॒प्त॒यः॒ ॥
स्वर रहित मन्त्र
मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः । यूयं सखायः सप्तयः ॥
स्वर रहित पद पाठमरुतः । मारुतस्य । नः । आ । भेषजस्य । वहत । सुऽदानवः । यूयम् । सखायः । सप्तयः ॥ ८.२०.२३
ऋग्वेद - मण्डल » 8; सूक्त » 20; मन्त्र » 23
अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 40; मन्त्र » 3
विषयः - पुनस्तमर्थमाह ।
पदार्थः -
हे सुदानवः । हे सखायः । हे सप्तयः=रक्षायै इतस्ततः सर्पणशीलाः । मरुतः ! यूयम् । नः । मारुतस्य=स्वसम्बन्धिनः । भेषजस्य । आवहत=आनयत । भेषजमानयतेत्यर्थः ॥२३ ॥