Loading...
ऋग्वेद मण्डल - 8 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 12
    ऋषिः - गोपवन आत्रेयः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये । स बो॑धि वृत्र॒तूर्ये॑ ॥

    स्वर सहित पद पाठ

    यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये । सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥


    स्वर रहित मन्त्र

    यं त्वा जनास ईळते सबाधो वाजसातये । स बोधि वृत्रतूर्ये ॥

    स्वर रहित पद पाठ

    यम् । त्वा । जनासः । ईळते । सऽबाधः । वाजऽसातये । सः । बोधि । वृत्रऽतूर्ये ॥ ८.७४.१२

    ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 12
    अष्टक » 6; अध्याय » 5; वर्ग » 23; मन्त्र » 2

    पदार्थः -
    सबाधः=बाधोपेताः । जनासः=जनाः । यं+त्वा=यं त्वाम् । वाजसातये=ज्ञानान्नादिलाभाय । ईळते=स्तुवन्ति । स त्वम् । वृत्रतूर्ये=विघ्नानां विनाशनिमित्ते कार्ये । बोधि=जानीहि ॥१२ ॥

    इस भाष्य को एडिट करें
    Top