Loading...

27 परिणाम मिले!

  • ऐच्छाम त्वा बहुधा जातवेद: प्रविष्टमग्ने अप्स्वोषधीषु । तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥ - Rigveda/10/51/3
  • ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः। कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥२॥ - Rigveda/5/53/2
  • ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि। तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥ - Atharvaveda/19/39/0/1
  • ऐतु पूषा रयिर्भग: स्वस्ति सर्वधातमः । उरुरध्वा स्वस्तये ॥ - Rigveda/8/31/11
  • ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम्। शरीरमस्य सम्विदां तत्पद्भ्यां प्रति तिष्ठतु ॥ - Atharvaveda/5/30/0/13
  • ऐनं निकामोगच्छति निकामे निकामस्य भवति य एवं वेद ॥ - Atharvaveda/15/11/0/11
  • ऐनं प्रियंगच्छति प्रियः प्रियस्य भवति य एवं वेद ॥ - Atharvaveda/15/11/0/7
  • ऐनं ब्रह्मगच्छति ब्रह्मवर्चसी भवति ॥ - Atharvaveda/15/10/0/8
  • ऐनं वशो गच्छतिवशी वशिनां भवति य एवं वेद ॥ - Atharvaveda/15/11/0/9
  • ऐनं श्रद्धागच्छत्यैनं यज्ञो गच्छत्यैनं लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यंगच्छति य एवं वेद ॥ - Atharvaveda/15/7/0/5
  • ऐनमापोगच्छत्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद ॥ - Atharvaveda/15/7/0/3
  • ऐनमिन्द्रियंगच्छतीन्द्रियवान्भवति ॥ - Atharvaveda/15/10/0/10
  • ऐनान्द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ। इन्द्रो मरुत्वानादानममित्रेभ्यः कृणोतु नः ॥ - Atharvaveda/6/104/0/3
  • ऐन्द्रः प्राणोऽअङ्गेअङ्गे निदीध्यदैन्द्रऽउदानोऽअङ्गेअङ्गे निधीतः । देव त्वष्टर्भूरि ते सँसमेतु सलक्ष्मा यद्विषुरूपम्भवाति । देवत्रा यन्तमवसे सखायोनु त्वा माता पितरो मदन्तु ॥ - Yajurveda/6/20
  • ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम्। उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥ - Atharvaveda/11/7/0/6
  • ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे। तन्मे तन्वं त्रायतां सर्वतो बृहदायुष्माञ्जरदष्टिर्यथासानि ॥ - Atharvaveda/8/5/0/19
  • ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये। देवेभिर्याहि यक्षि च॥ - Rigveda/1/14/1
  • ऐभिरग्ने सरथं याह्यर्वाङ् नानारथं वा विभवो ह्यश्वाः। पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व॥ - Rigveda/3/6/9
  • ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः। पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥ - Atharvaveda/20/13/0/4
  • ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥ - Rigveda/10/55/7
  • ऐभिर्ददे वृष्ण्या पौꣳस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह्न ऋते कर्ममुदजायन्त देवाः ॥१७८४॥ - Samveda/1784
  • ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने। सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥ - Atharvaveda/1/9/0/4
  • ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् । अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥ - Rigveda/10/147/3
  • ऐषु चेतद्वृषण्वत्यन्तॠज्रेष्वरुषी । स्वभीशुः कशावती ॥ - Rigveda/8/68/18
  • ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रव: । पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥ - Rigveda/10/93/10
  • ऐषु धा वीरवद्यश उषो मघोनि सूरिषु। ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥६॥ - Rigveda/5/79/6
  • ऐषु नह्य वृषाजिनं हरिणस्या भियं कृधि। पराङमित्र एषत्वर्वाची गौरुपेषतु ॥ - Atharvaveda/6/67/0/3
Top