ऋग्वेद - मण्डल 8/ सूक्त 18/ मन्त्र 1
ऋषिः - इरिम्बिठिः काण्वः
देवता - आदित्याः
छन्दः - पादनिचृदुष्णिक्
स्वरः - ऋषभः
इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑: । आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥
स्वर सहित पद पाठइ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ । आ॒दि॒त्याना॑म् । अपू॑र्व्यम् । सवी॑मनि ॥
स्वर रहित मन्त्र
इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्य: । आदित्यानामपूर्व्यं सवीमनि ॥
स्वर रहित पद पाठइदम् । ह । नूनम् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः । आदित्यानाम् । अपूर्व्यम् । सवीमनि ॥ ८.१८.१
ऋग्वेद - मण्डल » 8; सूक्त » 18; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 25; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 25; मन्त्र » 1
विषयः - कं भिक्षेतेति दर्शयति ।
पदार्थः -
आदित्यानाम्=आददति=गृह्णन्ति ये ते आदित्याः । पदार्थेभ्यो ये परमात्मतत्त्वं गृह्णन्ति ते विद्वांस आचार्य्याश्च आदित्याः । यद्वा । अदितेः पुत्रा आदित्याः । अदितिः=अखण्डनीया सर्वव्यापिनी बुद्धिः । या च अखण्डस्वरूपेण सर्वत्र व्याप्ता प्रकृतिरस्ति सापि अदितिः । यत्र यत्र प्रकृतिस्तत्र तत्र बुद्धिः । बुद्धितत्त्वस्य न कुत्राप्यभावोऽस्तीति शास्त्रैरवगन्तव्यम् । तेषामेषामादित्याना- माचार्य्याणाम् । सवीमनि=प्रसवे=प्रेरणे सति । मर्त्यः=ब्रह्मचारी तदितरश्च । नूनमवश्यम् । इदं ह=अपूर्व्यम्=नवीनं नवीनम् । सुम्नम्=विज्ञानरूपं महाधनम् । तेषामेव समीपे भिक्षेत ॥१ ॥