Loading...
ऋग्वेद मण्डल - 8 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 21/ मन्त्र 18
    ऋषिः - सोभरिः काण्वः देवता - चित्रस्य दानस्तुतिः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    चित्र॒ इद्राजा॑ राज॒का इद॑न्य॒के य॒के सर॑स्वती॒मनु॑ । प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ॥

    स्वर सहित पद पाठ

    चित्रः॑ । इत् । राजा॑ । रा॒ज॒काः । इत् । अ॒न्य॒के । य॒के । सर॑स्वतीम् । अनु॑ । प॒र्जन्यः॑ऽइव । त॒तन॑त् । हि । वृ॒ष्ट्या । स॒हस्र॑म् । अ॒युता॑ । दद॑त् ॥


    स्वर रहित मन्त्र

    चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु । पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥

    स्वर रहित पद पाठ

    चित्रः । इत् । राजा । राजकाः । इत् । अन्यके । यके । सरस्वतीम् । अनु । पर्जन्यःऽइव । ततनत् । हि । वृष्ट्या । सहस्रम् । अयुता । ददत् ॥ ८.२१.१८

    ऋग्वेद - मण्डल » 8; सूक्त » 21; मन्त्र » 18
    अष्टक » 6; अध्याय » 2; वर्ग » 4; मन्त्र » 3

    पदार्थः -
    चित्रः+इत्=आश्चर्यः परमात्मैव । राजा=सर्वेषां शासकः । सरस्वतीमनु=सरस्वत्यास्तीरे । यके=ये । अन्यके=अन्ये जनाः । सन्ति । ते । राजकाः+इत्= ईश्वराधीना एव । हि=यतः । वृष्ट्या पर्जन्य इव । सहस्रम्=सहस्रसंख्याकम् । अयुता=अयुतानि धनानि । ददत्=यच्छन् । ईश्वरः । ततनत्=विस्तारयति ॥१८ ॥

    इस भाष्य को एडिट करें
    Top