Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 28
    ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - पादनिचृदुष्णिक् स्वरः - ऋषभः

    त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना॑य चोदय । सदा॑ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ॥

    स्वर सहित पद पाठ

    त्वम् । व॒रो॒ इति॑ । सु॒ऽषाम्णे॑ । अग्ने॑ । जना॑य । चो॒द॒य॒ । सदा॑ । व॒सो॒ इति॑ । रा॒तिम् । य॒वि॒ष्ठ॒ । शश्व॑ते ॥


    स्वर रहित मन्त्र

    त्वं वरो सुषाम्णेऽग्ने जनाय चोदय । सदा वसो रातिं यविष्ठ शश्वते ॥

    स्वर रहित पद पाठ

    त्वम् । वरो इति । सुऽषाम्णे । अग्ने । जनाय । चोदय । सदा । वसो इति । रातिम् । यविष्ठ । शश्वते ॥ ८.२३.२८

    ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 28
    अष्टक » 6; अध्याय » 2; वर्ग » 14; मन्त्र » 3

    पदार्थः -
    हे वरो=वरणीय ! हे वसो=वासक ! हे यविष्ठ=युवतम=अतिशयमिश्रणकारिन् हे अग्ने ! त्वम् । सुसाम्ने=शोभनसामवते=सुगानवते । शश्वते=बहवे जनाय । रातिम्=दानम् । सदा । चोदय=प्रेरय ॥२८ ॥

    इस भाष्य को एडिट करें
    Top