ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 2
ऋषिः - मनुर्वैवस्वतः
देवता - ईज्यास्तवो यजमानप्रशंसा च
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् । पादित्तं श॒क्रो अंह॑सः ॥
स्वर सहित पद पाठपु॒रो॒ळाश॑म् । यः । अ॒स्मै॒ । सोम॑म् । रर॑ते । आ॒ऽशिर॑म् । पात् । इत् । तम् । श॒क्रः । अंह॑सः ॥
स्वर रहित मन्त्र
पुरोळाशं यो अस्मै सोमं ररत आशिरम् । पादित्तं शक्रो अंहसः ॥
स्वर रहित पद पाठपुरोळाशम् । यः । अस्मै । सोमम् । ररते । आऽशिरम् । पात् । इत् । तम् । शक्रः । अंहसः ॥ ८.३१.२
ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 38; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 38; मन्त्र » 2
विषयः - पुनस्तदनुवर्तते ।
पदार्थः -
ईश्वरमेव लक्षीकृत्य शुभानि कर्माणि विद्यातव्यानीति अनया शिक्षते । यथा यः खलु उपासकः अस्मै सर्वत्र विद्यमानाय महेश्वराय । समर्प्य पुरोडाशं पुरोऽन्नं दरिद्रेभ्यो दातव्यमन्नम् । श्रद्धया पुरोऽग्रे यद्दाश्यते दीयते । तं पुरोडाशम् । ररते ददाति । यः सोमं पवित्रतमं वस्तु । ररते । यः आशिरं विविधद्रव्याणि मिश्रयित्वा परिपक्वमन्नम् । ररते । तम् उपासकम् । अंहसः पापात् । शक्रः सर्वशक्तिमान् ईशः । पात्+इत् । पात्येव ॥२ ॥