Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 1
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न्ह॒व्या जु॑होतन ॥

    स्वर सहित पद पाठ

    स॒म्ऽइधा॑ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् । आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥


    स्वर रहित मन्त्र

    समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ॥

    स्वर रहित पद पाठ

    सम्ऽइधा । अग्निम् । दुवस्यत । घृतैः । बोधयत । अतिथिम् । आ । अस्मिन् । हव्या । जुहोतन ॥ ८.४४.१

    ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 36; मन्त्र » 1

    पदार्थः -
    हे मनुष्याः ! समिधा । अतिथिमग्निम् । दुवस्यत=परिचरत सेवध्वम् । घृतैश्च । इमम् । बोधयत=जागरयत । अस्मिन्नग्नौ । हव्या=हव्यानि=हवींषि । आजुहोतन=आजुहुत च ॥१ ॥

    इस भाष्य को एडिट करें
    Top