ऋग्वेद - मण्डल 8/ सूक्त 60/ मन्त्र 1
अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे । आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥
स्वर सहित पद पाठअग्ने॑ । आ । या॒हि॒ । अ॒ग्निऽभिः॑ । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । आ । त्वाम् । अ॒न॒क्तु॒ । प्रऽय॑ता । ह॒विष्म॑ती । यजि॑ष्ठम् । ब॒र्हिः । आ॒ऽसदे॑ ॥
स्वर रहित मन्त्र
अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥
स्वर रहित पद पाठअग्ने । आ । याहि । अग्निऽभिः । होतारम् । त्वा । वृणीमहे । आ । त्वाम् । अनक्तु । प्रऽयता । हविष्मती । यजिष्ठम् । बर्हिः । आऽसदे ॥ ८.६०.१
ऋग्वेद - मण्डल » 8; सूक्त » 60; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 32; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 32; मन्त्र » 1
विषयः - प्रथममग्निनाम्ना परमात्मानं स्तौति ।
पदार्थः -
हे अग्ने ! सर्वशक्ते ! सर्वाधार ईश ! त्वा=त्वां वयं वृणीमहे । त्वम् । अग्निभिः=सूर्य्यादिभिरग्निभिरिह रक्षणाय आयाहि । कीदृशम् । होतारम्=दातारम् । पुनः । यजिष्ठं=अतिशयेन यजनीयम् । पुनः । त्वा=त्वाम् । प्रयता=नियता । हविष्मती=अग्निहोत्रादिशुभकर्मवती प्रजा । आनक्तु=अलंकरोतु । हे भगवन् ! त्वं बर्हिः=हृदयप्रदेशम् । आसदे=आसद्योपविश ॥१ ॥