ऋग्वेद - मण्डल 8/ सूक्त 63/ मन्त्र 1
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्र:
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे । यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥
स्वर सहित पद पाठसः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ । यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥
स्वर रहित मन्त्र
स पूर्व्यो महानां वेनः क्रतुभिरानजे । यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥
स्वर रहित पद पाठसः । पूर्व्यः । महानाम् । वेनः । क्रतुऽभिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥ ८.६३.१
ऋग्वेद - मण्डल » 8; सूक्त » 63; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 1
विषयः - अनेन सूक्तेनेन्द्रः स्तूयते ।
पदार्थः -
स इन्द्रवाच्य ईश्वरः । पूर्व्यः=पूर्णः पुरातनश्च । पुनः । महानां=पूज्यानामपि विदुषाम् । वेनः=कमनीयः । ईदृशः स हीश्वरः । क्रतुभिः=स्वप्रज्ञाभिः स्वकर्मभिश्च । आनजे= सर्वत्र प्राप्तोऽस्ति । यस्य द्वारा=यस्य साहाय्येन । पिता=पालकः । मनुः=मन्ता बोद्धा आचार्य्यादिः । देवेषु=निखिलेषु पदार्थेषु । धियः=विज्ञानानि विद्याः कर्माणि च । आनजे=प्राप्नोति । आनजिः प्राप्तिकर्मा ॥१ ॥