Loading...
ऋग्वेद मण्डल - 8 के सूक्त 68 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 68/ मन्त्र 3
    ऋषिः - प्रियमेधः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतु॑: । हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥

    स्वर सहित पद पाठ

    यस्य॑ । ते॒ । म॒हि॒ना । म॒हः । परि॑ । ज्मा॒यन्त॑म् । ई॒यतुः॑ । हस्ता॑ । वज्र॑म् । हि॒र॒ण्यय॑म् ॥


    स्वर रहित मन्त्र

    यस्य ते महिना महः परि ज्मायन्तमीयतु: । हस्ता वज्रं हिरण्ययम् ॥

    स्वर रहित पद पाठ

    यस्य । ते । महिना । महः । परि । ज्मायन्तम् । ईयतुः । हस्ता । वज्रम् । हिरण्ययम् ॥ ८.६८.३

    ऋग्वेद - मण्डल » 8; सूक्त » 68; मन्त्र » 3
    अष्टक » 6; अध्याय » 5; वर्ग » 1; मन्त्र » 3

    पदार्थः -
    महः=महतो महस्विनश्च । यस्य ते । हस्ता=हस्तौ ताविव कर्मशक्ती । महिना=महत्त्वेन । वज्रम्=नियमदण्डम् । परि+ईयतुः=प्राप्नुतः=धत्तः । कीदृशम् । ज्मायन्तम् । ज्मा पृथिवी । उपलक्षणमेतत् । सर्वव्याप्तम् । पुनः । हिरण्ययम् । हितं रमणीयं च ॥३ ॥

    इस भाष्य को एडिट करें
    Top