ऋग्वेद - मण्डल 8/ सूक्त 69/ मन्त्र 1
प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ म॒न्दद्वी॑रा॒येन्द॑वे । धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥
स्वर सहित पद पाठप्रऽप्र॑ । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । म॒न्दत्ऽवी॑राय । इन्द॑वे । धि॒या । वः॒ । मे॒धऽसा॑तये । पु॒र॒म्ऽध्या । आ । वि॒वा॒स॒ति॒ ॥
स्वर रहित मन्त्र
प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे । धिया वो मेधसातये पुरंध्या विवासति ॥
स्वर रहित पद पाठप्रऽप्र । वः । त्रिऽस्तुभम् । इषम् । मन्दत्ऽवीराय । इन्दवे । धिया । वः । मेधऽसातये । पुरम्ऽध्या । आ । विवासति ॥ ८.६९.१
ऋग्वेद - मण्डल » 8; सूक्त » 69; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 5; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 5; मन्त्र » 1
विषयः - पुनरपीन्द्रवाच्येश्वरार्थनोपासनादि प्रारभ्यते ।
पदार्थः -
हे मनुष्याः ! वो यूयम्=अत्र प्रथमार्थे द्वितीयेति वैदिकप्रयोगः । मन्दद्वीराय=यो वीरान् धर्मशूरान् मन्दयते हर्षयति स मन्दद्वीरः तस्मै । पुनः । इन्दवे=विविधसुखैर्यो जगदिदमुनत्ति सिञ्चति स इन्दुः परमात्मा तस्मै । त्रिष्टुभम्=स्तुतिमयम् । इषम्=अन्नम् । प्रप्र=प्रकर्षेण । प्रेरयत=समर्पयत । यः परमात्मा । वो युष्मान् । धिया=शुभकर्मणा । पुरन्ध्या=बहुबुद्ध्या हेतुना । मेधसातये=विद्वद्भिः सह संगतिकरणाय विविधयज्ञसम्पादनाय च । विवासति=कामयते ॥१ ॥