ऋग्वेद - मण्डल 8/ सूक्त 9/ मन्त्र 1
आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से । प्रास्मै॑ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥
स्वर सहित पद पाठआ । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वम् । व॒त्सस्य॑ । ग॒न्त॒म् । अव॑से । प्र । अस्मै॑ । य॒च्छ॒त॒म् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । यु॒यु॒तम् । याः । अरा॑तयः ॥
स्वर रहित मन्त्र
आ नूनमश्विना युवं वत्सस्य गन्तमवसे । प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥
स्वर रहित पद पाठआ । नूनम् । अश्विना । युवम् । वत्सस्य । गन्तम् । अवसे । प्र । अस्मै । यच्छतम् । अवृकम् । पृथु । छर्दिः । युयुतम् । याः । अरातयः ॥ ८.९.१
ऋग्वेद - मण्डल » 8; सूक्त » 9; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 1
विषयः - अनाथानां मातापितृविहीनानां शिशूनां निमित्तं राजभिर्बाधकरहितं विस्तीर्णं गृहं निर्माययितव्यमिति राजकर्तव्यमुपदिशत्यनया ।
पदार्थः -
हे अश्विना=अश्विनी च अश्वी चेत्यश्विनौ राजानौ । राज्ञी च राजेत्यर्थः । युवम्=युवाम् । वत्सस्य=अनुकम्पनीयस्य शिशोः । अवसे=रक्षणाय । जातावेकवचनम् । अनुकम्पनीयानां शिशूनां रक्षायै नूनमवश्यम् । आगन्तमागच्छतम् । स्वगृहमपि त्यक्त्वा अनाथानां रक्षायै सह पत्न्या त्वया तत्र तत्रागन्तव्यमित्यर्थः । आगत्य च । अस्मै=वत्साय । अवृकम्=बाधकरहितं दुष्टविवर्जितम् । पृथु=विस्तीर्णम् । छर्दिर्गृहमाप्रयच्छतम्=दत्तम् । अपि च । यास्तत्र अरातयः=अदानशीलाः शत्रुभूताः प्रजाः । ता युयुतम्=पृथक् कुरुतम् ॥१ ॥