Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1479
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
धि꣣या꣡ च꣢क्रे꣣ व꣡रे꣢ण्यो भू꣣ता꣢नां꣣ ग꣢र्भ꣣मा꣡ द꣢धे । द꣡क्ष꣢स्य पि꣣त꣢रं꣣ त꣡ना꣢ ॥१४७९॥
स्वर सहित पद पाठधि꣣या꣢ । च꣣क्रे । व꣡रे꣢꣯ण्यः । भू꣣ता꣡ना꣢म् । ग꣡र्भ꣢꣯म् । आ । द꣣धे । द꣡क्ष꣢꣯स्य । पि꣣त꣡र꣢म् । त꣣ना꣢꣯ ॥१४७९॥
स्वर रहित मन्त्र
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे । दक्षस्य पितरं तना ॥१४७९॥
स्वर रहित पद पाठ
धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे । दक्षस्य । पितरम् । तना ॥१४७९॥
सामवेद - मन्त्र संख्या : 1479
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेश्वरः कमुपकारं करोतीत्याह।
पदार्थः -
(वरेण्यः) वरणीयः श्रेष्ठश्च असौ अग्निः परमात्मा, स्वकीयमुपासकम् (तना धिया) विस्तीर्णबुद्धिप्रदानेन (दक्षस्य) मनोबलस्य (पितरम्) जनकम् (चक्रे) करोति। किञ्च (भूतानाम्) उत्पन्नानां प्रशस्तजनानाम् (गर्भम्२) सद्गुणगर्भम् (आ दधे) स्थापयति ॥३॥३
भावार्थः - उपासितो जगदीश्वर उपासकस्य सखा भूत्वा तस्य बलं विज्ञानमध्यात्मसम्पत्तिं च वर्धयति ॥३॥ अस्मिन् खण्डे परमात्मविषयस्यानन्दप्रवाहस्य मानवप्रेरणायाश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्ज्ञेया ॥
इस भाष्य को एडिट करें