Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1531
ऋषिः - केतुराग्नेयः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
अ꣡ग्ने꣢ के꣣तु꣢र्वि꣣शा꣡म꣢सि꣣ प्रे꣢ष्ठः꣣ श्रे꣡ष्ठ꣢ उपस्थ꣣स꣢त् । बो꣡धा꣢ स्तो꣣त्रे꣢꣫ वयो꣣ द꣡ध꣢त् ॥१५३१॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । के꣣तुः꣢ । वि꣣शा꣢म् । अ꣣सि । प्रे꣡ष्ठः꣢꣯ । श्रे꣡ष्ठः꣢꣯ । उ꣣पस्थस꣢त् । उ꣣पस्थ । स꣢त् । बो꣡ध꣢꣯ । स्तो꣣त्रे꣢ । व꣡यः꣢꣯ । द꣡ध꣢꣯त् ॥१५३१॥
स्वर रहित मन्त्र
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधा स्तोत्रे वयो दधत् ॥१५३१॥
स्वर रहित पद पाठ
अग्ने । केतुः । विशाम् । असि । प्रेष्ठः । श्रेष्ठः । उपस्थसत् । उपस्थ । सत् । बोध । स्तोत्रे । वयः । दधत् ॥१५३१॥
सामवेद - मन्त्र संख्या : 1531
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 5
Acknowledgment
विषयः - अथ पुनरपि परमात्मानं नृपतिं च सम्बोधयति।
पदार्थः -
हे (अग्ने) अग्रनायक जगदीश्वर नृपते वा ! त्वम् (विशाम्) प्रजानाम् (केतुः) ज्ञानप्रदः, (प्रेष्ठः) प्रियतमः, (श्रेष्ठः) प्रशस्यतमः, (उपस्थसत्) समीपे विद्यमानश्च (असि) वर्तसे। त्वम् (स्तोत्रे) स्तुतिकर्त्रे राष्ट्रभक्ताय वा (वयः) धनान्नायुष्यादिकम् (दधत्) प्रयच्छन् तम् (बोध) बोधय, नित्यं कर्तव्यं प्रति जागरूकं कुरु ॥५॥
भावार्थः - यथा जगदीश्वरः सर्वेषां ज्ञानप्रदः प्रियतमः प्रशस्यतमः सुखसम्पत्प्रदाताऽऽयुष्यकरो जागरयिता च वर्तते तथैव नृपतिना भाव्यम् ॥५॥
इस भाष्य को एडिट करें