Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1572
ऋषिः - प्रयोगो भार्गवः पावकोऽग्निर्बार्हस्पत्यो वा गृहपति0यविष्ठौ सहसः पुत्रावन्यतरो वा देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

प꣣दं꣢ दे꣣व꣡स्य꣢ मी꣣ढु꣡षोऽना꣢꣯धृष्टाभिरू꣣ति꣡भिः꣢ । भ꣣द्रा꣡ सूर्य꣢꣯ इवोप꣣दृ꣢क् ॥१५७२॥

स्वर सहित पद पाठ

प꣣द꣢म् । दे꣣व꣡स्य꣢ । मी꣣ढु꣡षः꣢ । अ꣡ना꣢꣯धृष्टाभिः । अन् । आ꣣धृष्टाभिः । ऊति꣡भिः꣢ । भ꣣द्रा꣢ । सू꣡र्यः꣢꣯ । इ꣣व । उपदृ꣢क् । उ꣣प । दृ꣢क् ॥१५७२॥


स्वर रहित मन्त्र

पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः । भद्रा सूर्य इवोपदृक् ॥१५७२॥


स्वर रहित पद पाठ

पदम् । देवस्य । मीढुषः । अनाधृष्टाभिः । अन् । आधृष्टाभिः । ऊतिभिः । भद्रा । सूर्यः । इव । उपदृक् । उप । दृक् ॥१५७२॥

सामवेद - मन्त्र संख्या : 1572
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
(मीढुषः) सुखसेचकस्य (देवस्य) प्रकाशकस्य (अग्नेः) जगदीश्वरस्य (पदम्) प्राप्तव्यं मोक्षपदम् (अनाधृष्टाभिः) अदब्धाभिः (ऊतिभिः) रक्षाभिः युक्तं वर्तते। किञ्च, तस्य (उपदृक्) कृपादृष्टिः (सूर्यः इव) आदित्यस्य (भद्रा) शुभा अस्ति ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थः - परमात्मनः शरणं गत्वा मानवस्तस्याऽक्षय्यां रक्षाममृतमयीं कृपादृष्टिं च लभते ॥३॥ अस्मिन् खण्डे यज्ञाग्निपरमेश्वरविषयोर्वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top