Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1703
ऋषिः - विश्वामित्रः प्रागाथः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
प्र꣡ वा꣢मर्चन्त्यु꣣क्थि꣡नो꣢ नीथाविदो जरितारः । इन्द्राग्नी इष आ वृणे ॥१७०३
स्वर सहित पद पाठप्र꣢ । वा꣣म् । अर्चन्ति । उक्थि꣡नः꣢ । नी꣣थावि꣡दः꣢ । नी꣣थ । वि꣡दः꣢꣯ । ज꣣रिता꣡रः꣢ । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नी꣢इति꣢ । इ꣡षः꣢꣯ । आ । वृ꣣णे ॥१७०३॥
स्वर रहित मन्त्र
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । इन्द्राग्नी इष आ वृणे ॥१७०३
स्वर रहित पद पाठ
प्र । वाम् । अर्चन्ति । उक्थिनः । नीथाविदः । नीथ । विदः । जरितारः । इन्द्राग्नी । इन्द्र । अग्नीइति । इषः । आ । वृणे ॥१७०३॥
सामवेद - मन्त्र संख्या : 1703
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - द्वितीया ऋक् उत्तरार्चिके १५७५ क्रमाङ्के परमात्मजीवात्मविषये व्याख्यातपूर्वा। अत्र ब्रह्मक्षत्रविषय उच्यते।
पदार्थः -
हे इद्राग्नी ब्राह्मणक्षत्रियौ ! (उक्थिनः) गुणप्रशंसकाः, (नीथाविदः) नीतिवेत्तारः, (जरितारः) ज्ञानवृद्धाः जनाः (वाम्) युवाम् (प्र अर्चन्ति) प्रशंसन्ति। अहम् युवयोः (इषः) एष्टव्यान् लाभान् (आवृणे) स्वीकरोमि ॥२॥२
भावार्थः - मनुष्यैरुत्कृष्टान् ब्राह्मणान् क्षत्रियांश्च संगृह्य राष्ट्रमुन्नेतव्यम् ॥२॥
इस भाष्य को एडिट करें