Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 445
ऋषिः - त्रसदस्युः
देवता - इन्द्रः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
1
अ꣡र्च꣢न्त्य꣣र्कं꣢ म꣣रु꣡तः꣢ स्व꣣र्का꣡ आ स्तो꣢꣯भति श्रु꣣तो꣢꣫ युवा꣣ स꣡ इन्द्रः꣢꣯ ॥४४५॥
स्वर सहित पद पाठअ꣡र्च꣢꣯न्ति । अ꣣र्कं꣢ । म꣣रु꣡तः꣢ । स्व꣣र्काः꣢ । सु꣣ । अर्काः꣢ । आ । स्तो꣣भति । श्रुतः꣢ । यु꣡वा꣢꣯ । सः । इ꣡न्द्रः꣢꣯ ॥४४५॥
स्वर रहित मन्त्र
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥४४५॥
स्वर रहित पद पाठ
अर्चन्ति । अर्कं । मरुतः । स्वर्काः । सु । अर्काः । आ । स्तोभति । श्रुतः । युवा । सः । इन्द्रः ॥४४५॥
सामवेद - मन्त्र संख्या : 445
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
विषयः - अथ परमेश्वराराधनस्य फलमाह।
पदार्थः -
(स्वर्काः) सुस्तुतयः सूच्चारितमन्त्राः वा। ऋच स्तुतौ, अर्च पूजायाम्। ‘अर्को मन्त्रो भवति यदनेनार्चन्ति’। निरु० ५।४। मरुतः ऋत्विजः। मरुतः इति ऋत्विङ्नाम। निघं० ३।१८। (अर्कम्) अर्चनीयम् इन्द्रं परमेश्वरम्। अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।४। (अर्चन्ति) पूजयन्ति। (श्रुतः) वेदेषु प्रसिद्धः, आकर्णितो वा, (युवा) नित्यतरुणः, तरुण इव असीमबलः (सः) असौ (इन्द्रः) परमेश्वरः, तान् (आ स्तोभति) अवलम्बं प्रयच्छति। स्तुभ स्तम्भे भ्वादिः ॥९॥ अत्रानुप्रासालङ्कारः। किञ्च, परस्परोपकाररूपेण वस्तुना परिवृत्ति२रलङ्कारो व्यज्यते ॥९॥
भावार्थः - ये मनुष्या वेदमन्त्रगानपुरस्सरं परमात्मानमाराध्नुवन्ति तान् सोऽक्षयावलम्बप्रदानेनानुगृह्णाति ॥९॥
टिप्पणीः -
१. साम० १११४। २. परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत्। सा० द० १०।८० इति तल्लक्षणात्। प्रकृते समेन विनिमयः।