Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 455
ऋषिः - आत्रेयः
देवता - विश्वेदेवाः
छन्दः - द्विपदा त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
1
ऊ꣣र्जा꣢ मि꣣त्रो꣡ वरु꣢꣯णः पिन्व꣣ते꣢डाः꣣ पी꣡व꣢री꣣मि꣡षं꣢ कृणु꣣ही꣡ न꣢ इन्द्र ॥४५५
स्वर सहित पद पाठऊ꣣र्जा꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । पि꣣न्वत । इ꣡डाः꣢꣯ । पी꣡व꣢꣯रीम् । इ꣡ष꣢꣯म् । कृ꣣णुहि꣢ । नः꣣ । इन्द्र ॥४५५॥
स्वर रहित मन्त्र
ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥४५५
स्वर रहित पद पाठ
ऊर्जा । मित्रः । मि । त्रः । वरुणः । पिन्वत । इडाः । पीवरीम् । इषम् । कृणुहि । नः । इन्द्र ॥४५५॥
सामवेद - मन्त्र संख्या : 455
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment
विषयः - अथ विश्वेदेवा देवताः। इन्द्रमित्रवरुणा अस्मभ्यं किं कुर्वन्त्वित्याह।
पदार्थः -
प्रथमः—परमात्मादिपरः। हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! त्वम्, (मित्रः) सूर्यः, (वरुणः) वायुश्च संभूय (ऊर्जा) रसेन। ऊर्ग् वा आपो रसः। कौ० ब्रा० १२।१। (इडाः) भूमीः। इडा इति पृथिवीनाम। निघं० १।१। (पिन्वत) सिञ्चत। पिवि सेवने सेचने च, भ्वादिः। हे इन्द्र परमात्मन् ! त्वम् (नः) अस्मभ्यम् (पीवरीम्) स्थूलां, प्रचुरामित्यर्थः (इषम्) सस्यसम्पदम् (कृणुहि) कुरु, येन वयं दुर्भिक्षादिभिर्न पीड्येमहि ॥ अथ द्वितीयः—शरीरपरः। हे (इन्द्र) मदीय जीवात्मन् ! त्वम्, (मित्रः) प्राणः, (वरुणः) अपानश्च। प्राणापानौ मित्रावरुणौ। तां० ब्रा० ६।१०।५। संभूय (ऊर्जा) बलेन। ऊर्ज बलप्राणनयोः, चुरादिः। (इडाः) मधुरा वाचः। इडा इति वाङ्नाम। निघं० १।११। (पिन्वत) प्रेरयत। हे मदीय अन्तरात्मन् ! त्वम् (नः) अस्मभ्यम् (पीवरीम्) प्रचुराम् (इषम्) ज्ञानसम्पत्तिम् (कृणुहि) कुरु ॥ अथ तृतीयः—राष्ट्रपरः। हे (इन्द्र) ऐश्वर्यवन् राजन् ! त्वम्, (मित्रः) अमात्यः, (वरुणः) सेनापतिश्च, संभूय (ऊर्जा) अन्नेन सह। ऊर्क् इति अन्ननाम। निघं० २।७। (इडाः) भूमीः धेनूश्च। इडा इति पृथिवीनाम गोनाम च। निघं० १।१, २।११। (पिन्वत) बाहुल्येन प्रयच्छत। हे इन्द्र राजन् ! त्वम् (इषम्) प्रजाम्। प्रजा वा इषः। श० १।७।३।१४। (पीवरीम्) समृद्धाम् (कृणुहि) कुरु ॥९॥ अत्र श्लेषालङ्कारः ॥९॥
भावार्थः - परमात्मा जीवात्मा नृपतिश्च मनोबुद्धिप्राणापानसूर्यवायुसचिव- सेनापत्यादिभिः सह संभूय भोज्यपेयबलवाग्भूमिधेन्वादिसम्पद्भिः सर्वान् समृद्धान् कुर्वन्तु ॥९॥
इस भाष्य को एडिट करें