Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 902
ऋषिः - बृहन्मतिराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
आ꣣वि꣡वा꣢सन्परा꣣व꣢तो꣣ अ꣡थो꣢ अर्वा꣣व꣡तः꣢ सु꣣तः꣢ । इ꣡न्द्रा꣢य सिच्यते꣣ म꣡धु꣢ ॥९०२॥
स्वर सहित पद पाठआ꣣वि꣡वा꣢सन् । आ꣢ । वि꣡वा꣢꣯सन् । प꣣राव꣡तः꣢ । अ꣡थ꣢꣯ । उ꣣ । अर्वाव꣡तः꣢ । सु꣣तः꣢ । इ꣡न्द्रा꣢꣯य । सि꣣च्यते । म꣡धु꣢꣯ ॥९०२॥
स्वर रहित मन्त्र
आविवासन्परावतो अथो अर्वावतः सुतः । इन्द्राय सिच्यते मधु ॥९०२॥
स्वर रहित पद पाठ
आविवासन् । आ । विवासन् । परावतः । अथ । उ । अर्वावतः । सुतः । इन्द्राय । सिच्यते । मधु ॥९०२॥
सामवेद - मन्त्र संख्या : 902
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
विषयः - अथ पुनः स एव विषयो वर्ण्यते।
पदार्थः -
पवमानः चित्तशोधकः सोमः परमेश्वरः (सुतः) हृदये प्रकटीकृतः सन् (परावतः) पराविद्यायुक्तान् (अथ उ) अथ च (अर्वावतः) अपराविद्यायुक्तान् उपासकान् (आ विवासन्) सम्मानयन् भवति। तस्मात् परमेश्वरादभिषुतम् (मधु) मधुरः आनन्दरसः (इन्द्राय) जीवात्मने (सिच्यते) क्षार्यते ॥५॥
भावार्थः - ये स्वात्मानं मधुरेण ब्रह्मानन्दरसेन स्नपयन्ति ते निर्मलान्तःकरणा उपासकाः सर्वथा विमुक्तक्लेशाः सन्तः परमां गतिं प्राप्नुवन्ति ॥५॥
टिप्पणीः -
१. ऋ० ९।३९।५।