Loading...
ऋग्वेद मण्डल - 3 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 25/ मन्त्र 5
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्राग्नी छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः। स॒धस्था॑नि म॒हय॑मान ऊ॒ती॥

    स्वर सहित पद पाठ

    अग्ने॑ । अ॒पाम् । सम् । इ॒ध्य॒से॒ । दु॒रो॒णे । नित्यः॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । जा॒त॒ऽवे॒दः॒ । स॒धऽस्था॑नि । म॒हय॑मानः । ऊ॒ती ॥


    स्वर रहित मन्त्र

    अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः। सधस्थानि महयमान ऊती॥

    स्वर रहित पद पाठ

    अग्ने। अपाम्। सम्। इध्यसे। दुरोणे। नित्यः। सूनो इति। सहसः। जातऽवेदः। सधऽस्थानि। महयमानः। ऊती॥

    ऋग्वेद - मण्डल » 3; सूक्त » 25; मन्त्र » 5
    अष्टक » 3; अध्याय » 1; वर्ग » 25; मन्त्र » 5

    अन्वयः - हे सहसस्सूनो जातवेदोऽग्ने नित्यो महयमानो यस्त्वमूती अपां मध्ये सूर्य्य इव दुरोणे समिध्यसे तेन भवता सर्वेषां मनुष्याणां सधस्थान्यात्मानश्च विद्याधर्मविनयैः प्रकाशनीयाः ॥५॥

    पदार्थः -
    (अग्ने) वह्निरिव वर्त्तमान (अपाम्) प्राणानां मध्ये (सम्) (इध्यसे) प्रकाश्यसे (दुरोणे) निवासस्थाने गृहे (नित्यः) स्वस्वरूपेणाऽविनाशी (सूनो) अपत्यमिव वर्त्तमान अविद्याहिंसक वा (सहसः) बलवतः (जातवेदः) जातप्रज्ञान (सधस्थानि) समानस्थानानि (मह्यमानः) पूज्यमानः (ऊती) ऊत्या रक्षणाद्यया क्रियया ॥५॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा नित्यशुद्धबुद्धमुक्तस्वभावः सच्चिदानन्दादिलक्षणः परमात्मा सर्वं जगदुत्पाद्य संरक्ष्यानन्दयति तथैवाप्तैर्विद्वद्भिस्सर्वमिदं जगदानन्दयितव्यमिति ॥५॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चविंशतितमं सूक्तं स एव वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top