ऋग्वेद - मण्डल 3/ सूक्त 27/ मन्त्र 1
ऋषिः - विश्वामित्रः
देवता - ऋतवोऽग्निर्वा
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्म॑न्तो घृ॒ताच्या॑। दे॒वाञ्जि॑गाति सुम्न॒युः॥
स्वर सहित पद पाठप्र । वः॒ । वाजाः॑ । अ॒भिऽद्य॑वः । ह॒विष्म॑न्तः । घृ॒ताच्या॑ । दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥
स्वर रहित मन्त्र
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या। देवाञ्जिगाति सुम्नयुः॥
स्वर रहित पद पाठप्र। वः। वाजाः। अभिऽद्यवः। हविष्मन्तः। घृताच्या। देवान्। जिगाति। सुम्नयुः॥
ऋग्वेद - मण्डल » 3; सूक्त » 27; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 28; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 28; मन्त्र » 1
विषयः - अथ विद्वद्भिः किं कार्यमित्याह।
अन्वयः - हे मनुष्यो ये वोऽभिद्यवो हविष्मन्तो वाजा घृताच्या सह वर्त्तन्ते तैर्युक्तो यः सुम्नयुर्देवान् प्रजिगाति तांस्तं च यूयं प्राप्नुत ॥१॥
पदार्थः -
(प्र) (वः) युष्माकम् (वाजाः) विज्ञानाद्यः पदार्थाः (अभिद्यवः) अभितः प्रकाशमानाः (हविष्मन्तः) बहूनि हवींषि देयानि वस्तूनि विद्यन्ते येषु ते (घृताच्या) या घृतमुदकमञ्चति प्राप्नोति तथा रात्र्या (देवान्) (जिगाति) स्तौति (सुम्नयुः) य आत्मनः सुम्नं सुखमिच्छुः ॥१॥
भावार्थः - यथा दिवसे पदार्थाः शुष्का भवन्ति तथैव रात्रावार्द्रा जायन्ते तथैव ये स्वकीयाः पदार्थास्तेऽन्येषां येऽन्येषां ते स्वकीयाः सन्तीति सुखेच्छया विद्वत्सङ्गः कर्त्तव्यः ॥१॥
इस भाष्य को एडिट करें