ऋग्वेद - मण्डल 6/ सूक्त 9/ मन्त्र 7
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - वैश्वानरः
छन्दः - भुरिग्जगती
स्वरः - निषादः
विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस॑म्। वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥७॥
स्वर सहित पद पाठविश्वे॑ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम॑सि । त॒स्थि॒ऽवांस॑म् । वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ । अम॑र्त्यः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ ॥
स्वर रहित मन्त्र
विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम्। वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥७॥
स्वर रहित पद पाठविश्वे। देवाः। अनमस्यन्। भियानाः। त्वाम्। अग्ने। तमसि। तस्थिऽवांसम्। वैश्वानरः। अवतु। ऊतये। नः। अमर्त्यः। अवतु। ऊतये। नः ॥७॥
ऋग्वेद - मण्डल » 6; सूक्त » 9; मन्त्र » 7
अष्टक » 4; अध्याय » 5; वर्ग » 11; मन्त्र » 7
अष्टक » 4; अध्याय » 5; वर्ग » 11; मन्त्र » 7
विषयः - मनुष्यैः कस्माद्भीत्वा पापाचरणं नाचरणीयमित्याह ॥
अन्वयः - हे अग्ने ! परमात्मँस्तमसि तस्थिवांसं त्वां पृथिव्यादय इव विश्वे देवा भियाना अनमस्यन्त्स वैश्वानरोऽमर्त्त्यो भवानूतये नोऽस्मानवतूतये नोऽस्मानवतु ॥७॥
पदार्थः -
(विश्वे) सर्वे (देवाः) विद्वांसः (अनमस्यन्) प्रह्वीभूता भवन्ति (भियानाः) भयं प्राप्ताः (त्वाम्) परमात्मानमिव विद्युद्युक्तं प्राणमिव परमात्मनम् (अग्ने) पावकेश्वर (तमसि) अन्धकारे (तस्थिवांसम्) प्रतिष्ठन्तम् (वैश्वानरः) विश्वस्य संसारस्य प्रकाशकः (अवतु) रक्षतु (ऊतये) रक्षणाद्याय (नः) अस्मान् (अमर्त्यः) मृत्युधर्मरहितः (अवतु) (ऊतये) (नः) अस्मान् ॥७॥
भावार्थः - हे मनुष्या ! यथा प्राणविद्युतौ प्राप्य सर्वेषां पृथिव्यादीनां स्थितिर्वर्त्तते यथाग्नेः सर्वे प्राणिनोः बिभ्यति तथैव सर्वव्यापिनं सर्वान्तर्यामिणं परमात्मानं मत्वा पापाचरणाद्विद्वांसो बिभ्यतीति सर्वेऽस्माद्बिभ्यत्विति ॥७॥ अत्राऽहोरात्र्यपत्यजीवपरमात्मादीनां स्थितिवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति नवमं सूक्तमेकादशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें