Loading...
ऋग्वेद मण्डल - 7 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 16/ मन्त्र 10
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः

    ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः। ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥१०॥

    स्वर सहित पद पाठ

    ये । राधां॑सि । दद॑ति । अश्व्या॑ । म॒घा । कामे॑न । श्रव॑सः । म॒हः । तान् । अंह॑सः । पि॒पृ॒हि॒ । प॒र्तृऽभिः । त्वम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ्य॒ ॥


    स्वर रहित मन्त्र

    ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः। ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥१०॥

    स्वर रहित पद पाठ

    ये। राधांसि। ददति। अश्व्या। मघा। कामेन। श्रवसः। महः। तान्। अंहसः। पिपृहि। पर्तृऽभिः। त्वम्। शतम्। पूःऽभिः। यविष्ठ्य ॥१०॥

    ऋग्वेद - मण्डल » 7; सूक्त » 16; मन्त्र » 10
    अष्टक » 5; अध्याय » 2; वर्ग » 22; मन्त्र » 4

    अन्वयः - हे यविष्ठ्य राजन् ! ये महः श्रवसः कामेन शतं मघाऽश्व्या राधांसि सर्वेभ्यो ददति तान्पर्तृभिः पूर्भिस्त्वमंहसः पिपृहि ॥१०॥

    पदार्थः -
    (ये) (राधांसि) धनानि (ददति) (अश्व्या) महत्सु भवानि (मघा) पूजनीयानि (कामेन) इच्छया (श्रवसः) अन्नस्य (महः) महतः (तान्) (अंहसः) दुष्टाचारात् (पिपृहि) पालय (पर्तृभिः) पालकैः (त्वम्) (शतम्) असंख्यम् (पूर्भिः) नगरीभिः (यविष्ठ्य) येऽतिशयेन युवानस्तेषु साधो ॥१०॥

    भावार्थः - हे राजन् ! ये धर्मात्मभ्य उद्योगिभ्यः श्रमं कारयित्वा धनाऽन्नानि प्रयच्छन्ति तान्नगरीभिः पालकैस्सह वर्त्तमानानधर्माचरणात्पृथग् रक्षयत एते धर्मेणोद्योगेन पुष्कलं धनाऽन्नं प्राप्य जगद्धिताय सततं दानं कुर्य्युः ॥१०॥

    इस भाष्य को एडिट करें
    Top