ऋग्वेद - मण्डल 7/ सूक्त 16/ मन्त्र 12
तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत। दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥१२॥
स्वर सहित पद पाठतम् । होता॑रम् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ । दधा॑ति । रत्न॑म् । वि॒ध॒ते । सु॒ऽवीर्य॑म् । अ॒ग्निः । जना॑य । दा॒शुषे॑ ॥
स्वर रहित मन्त्र
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत। दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥१२॥
स्वर रहित पद पाठतम्। होतारम्। अध्वरस्य। प्रऽचेतसम्। वह्निम्। देवाः। अकृण्वत। दधाति। रत्नम्। विधते। सुऽवीर्यम्। अग्निः। जनाय। दाशुषे ॥१२॥
ऋग्वेद - मण्डल » 7; सूक्त » 16; मन्त्र » 12
अष्टक » 5; अध्याय » 2; वर्ग » 22; मन्त्र » 6
अष्टक » 5; अध्याय » 2; वर्ग » 22; मन्त्र » 6
विषयः - पुनरध्यापकाः अध्येतारः किं कुर्य्युरित्याह ॥
अन्वयः - योऽग्निरिव विधते दाशुषे जनाय सुवीर्यं रत्नं दधाति यं देवा अध्वरस्य होतारं वह्निं प्रचेतसमकृण्वत तं सर्वे सुशिक्षयन्तु ॥१२॥
पदार्थः -
(तम्) (होतारम्) विद्याया आदातारम् (अध्वरस्य) अहिंसामयस्य यज्ञस्य (प्रचेतसम्) प्रकर्षेण ज्ञापयितारम् (वह्निम्) वोढारम् (देवाः) विद्वांसः (अकृण्वत) कुर्वन्तु (दधाति) (रत्नम्) रमणीयं धनम् (विधते) विधानं कुर्वते (सुवीर्यम्) सुष्ठु पराक्रमम् (अग्निः) वह्निरिव वर्त्तमानः (जनाय) परोपकारे प्रसिद्धाय (दाशुषे) दात्रे ॥१२॥
भावार्थः - हे विद्वांसो ! ये जितेन्द्रियास्तीव्रप्रज्ञा विद्याग्रहणाय प्रवृत्ता विद्यार्थिनस्युस्तानहिंस्रान् प्राज्ञान् विद्याधर्मधरान्कुरुतेति ॥१२॥ अत्राग्निविद्वद्राजयजमानपुरोहितोपदेशकविद्यार्थिकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति षोडशं सूक्तं द्वाविंशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें