ऋग्वेद - मण्डल 10/ सूक्त 121/ मन्त्र 2
ऋषिः - हिरण्यगर्भः प्राजापत्यः
देवता - कः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठयः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः । यस्य॑ । छा॒याम् । ऋत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
स्वर रहित मन्त्र
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठयः । आत्मऽदाः । बलऽदाः । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवाः । यस्य । छायाम् । ऋतम् । यस्य । मृत्युः । कस्मै । देवाय । हविषा । विधेम ॥ १०.१२१.२
ऋग्वेद - मण्डल » 10; सूक्त » 121; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 3; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 3; मन्त्र » 2
भावार्थ - परमात्मा संसारात जन्माला घालून आत्मबोध देतो. आपल्या संगतीने बल देतो. त्याचा नियम सर्व जण स्वीकारतात. कोणी तोडू शकत नाही. त्याला शरण जाण्याने अमृत होता येते; अन्यथा मृत्यू येतो. त्या सुखस्वरूप प्रजापतीला उपहार रूपाने आपल्या आत्म्याला समर्पित केले पाहिजे. ॥२॥
इस भाष्य को एडिट करें