ऋग्वेद - मण्डल 7/ सूक्त 64/ मन्त्र 2
आ रा॑जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् । इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥
स्वर सहित पद पाठआ । रा॒जा॒ना॒ । म॒हः॒ । ऋ॒त॒स्य॒ । गो॒पा॒ । सिन्धु॑पती॒ इति॒ सिन्धु॑ऽपती । क्ष॒त्रि॒या॒ । या॒त॒म् । अ॒र्वाक् । इळा॑म् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । वृ॒ष्टिम् । अव॑ । दि॒वः । इ॒न्व॒त॒म् । जी॒रद॒ा॒नू॒ इति॑ जीरऽदानू ॥
स्वर रहित मन्त्र
आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् । इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥
स्वर रहित पद पाठआ । राजाना । महः । ऋतस्य । गोपा । सिन्धुपती इति सिन्धुऽपती । क्षत्रिया । यातम् । अर्वाक् । इळाम् । नः । मित्रावरुणा । उत । वृष्टिम् । अव । दिवः । इन्वतम् । जीरऽदानू इति जीरऽदानू ॥ ७.६४.२
ऋग्वेद - मण्डल » 7; सूक्त » 64; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 2
पदार्थः -
(राजाना) हे प्रजापालकजना भवन्तः (महः, ऋतस्य) महतः सत्यस्य (गोपा) रक्षकाः (सिन्धुपती) सर्वसिन्धुप्रदेशानां पतयः (क्षत्रियाः) प्रजारक्षकाः (अर्वाक्, यातं) शीघ्रमागत्य (नः) अस्माकं (मित्रावरुणा) अध्यापकोपदेशकयोः (इळां, वृष्टिं) अन्यसाधनस्य च पुष्टिद्वारेण (अव) रक्षन्तु भवन्तः, अन्यच्च (जीरदानू) शीघ्रमेव (दिवः) द्युलोकस्य ऐश्वर्य्येण (इन्वतं) वर्धयन्तु ॥२॥