Loading...
ऋग्वेद मण्डल - 7 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 86/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - वरुणः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभि॑: । अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥

    स्वर सहित पद पाठ

    अव॑ । द्रु॒ग्धानि॑ । पित्र्या॑ । सृ॒ज॒ । नः॒ । अव॑ । या । व॒यम् । च॒कृ॒म । त॒नूभिः॑ । अव॑ । रा॒ज॒न् । प॒शु॒ऽतृप॑म् । न । ता॒युम् । सृ॒ज । व॒त्सम् । न । दाम्नः॑ । वसि॑ष्ठम् ॥


    स्वर रहित मन्त्र

    अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभि: । अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥

    स्वर रहित पद पाठ

    अव । द्रुग्धानि । पित्र्या । सृज । नः । अव । या । वयम् । चकृम । तनूभिः । अव । राजन् । पशुऽतृपम् । न । तायुम् । सृज । वत्सम् । न । दाम्नः । वसिष्ठम् ॥ ७.८६.५

    ऋग्वेद - मण्डल » 7; सूक्त » 86; मन्त्र » 5
    अष्टक » 5; अध्याय » 6; वर्ग » 8; मन्त्र » 5

    पदार्थः -
    (राजन्) भो विराजमान भगवन् ! भवान् (द्रुग्धानि, पित्र्या) मातापित्रोः प्रकृतेः (नः) आगता अस्माकं दोषाः, तथा (या) यानि (वयम्) वयं (तनूभिः) शरीरेण (चकृम) अकार्ष्म (अव) तानि मुञ्चतु (पशुतृपम्) पशूनामिवास्माकं विषयवासनाः तथा (तायुम्, न) तस्कराणामिव मद्भावाः सन्ति, तान् (सृज) अपनयतु, (दाम्नः) रज्जुना बद्धेन (वत्सम्) वत्सेन सदृशं (वसिष्ठम्) विषयानुविद्धं मां (अवसृज) मुञ्चतु ॥५॥

    इस भाष्य को एडिट करें
    Top