Loading...
ऋग्वेद मण्डल - 9 के सूक्त 34 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 34/ मन्त्र 4
    ऋषिः - त्रितः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः । सं रू॒पैर॑ज्यते॒ हरि॑: ॥

    स्वर सहित पद पाठ

    भुव॑त् । त्रि॒तस्य॑ । मर्ज्यः॑ । भुव॑त् । इन्द्रा॑य । म॒त्स॒रः । सम् । रू॒पैः । अ॒ज्य॒ते॒ । हरिः॑ ॥


    स्वर रहित मन्त्र

    भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः । सं रूपैरज्यते हरि: ॥

    स्वर रहित पद पाठ

    भुवत् । त्रितस्य । मर्ज्यः । भुवत् । इन्द्राय । मत्सरः । सम् । रूपैः । अज्यते । हरिः ॥ ९.३४.४

    ऋग्वेद - मण्डल » 9; सूक्त » 34; मन्त्र » 4
    अष्टक » 6; अध्याय » 8; वर्ग » 24; मन्त्र » 4

    पदार्थः -
    परमात्मा (त्रितस्य) श्रवणमनननिदिध्यासनैः त्रिभिः साधनैः (मर्ज्यः भुवत्) उपासनीयः (इन्द्राय मत्सरः भुवत्) विज्ञानिभ्यः आह्लादजनकश्चास्ति तथा (हरिः रूपैः समज्यते) पापशमकः परमात्मा ब्रह्माण्डरूपैः स्वकार्यैः अभिव्यक्तो भवति ॥४॥

    इस भाष्य को एडिट करें
    Top