ऋग्वेद - मण्डल 9/ सूक्त 61/ मन्त्र 5
ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षर॑न्ति॒ धार॑या । तेभि॑र्नः सोम मृळय ॥
स्वर सहित पद पाठये । ते॒ । प॒वित्र॑म् । ऊ॒र्मयः॑ । अ॒भि॒ऽक्षर॑न्ति । धार॑या । तेभिः॑ । नः॒ । सो॒म॒ । मृ॒ळ॒य॒ ॥
स्वर रहित मन्त्र
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया । तेभिर्नः सोम मृळय ॥
स्वर रहित पद पाठये । ते । पवित्रम् । ऊर्मयः । अभिऽक्षरन्ति । धारया । तेभिः । नः । सोम । मृळय ॥ ९.६१.५
ऋग्वेद - मण्डल » 9; सूक्त » 61; मन्त्र » 5
अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 5
अष्टक » 7; अध्याय » 1; वर्ग » 18; मन्त्र » 5
पदार्थः -
(सोम) हे सौम्यप्रकृते कर्मयोगिन् ! (ये ते ऊर्मयः) याः शरणागतरक्षिका भवतः शक्तयः (पवित्रम्) शुद्धान्तःकरणवन्तं मनुष्यं (धारया) प्रवाहरूपेण (अभिक्षरन्ति) अभिगता भवन्ति। (तेभिः) ताभिः शक्तिभिः (नः) अस्मान् (मृळय) सुरक्षितान् विधाय सुखय ॥५॥