ऋग्वेद - मण्डल 9/ सूक्त 62/ मन्त्र 1
ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑: । विश्वा॑न्य॒भि सौभ॑गा ॥
स्वर सहित पद पाठए॒ते । अ॒सृ॒ग्र॒म् । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ । विश्वा॑नि । अ॒भि । सौभ॑गा ॥
स्वर रहित मन्त्र
एते असृग्रमिन्दवस्तिरः पवित्रमाशव: । विश्वान्यभि सौभगा ॥
स्वर रहित पद पाठएते । असृग्रम् । इन्दवः । तिरः । पवित्रम् । आशवः । विश्वानि । अभि । सौभगा ॥ ९.६२.१
ऋग्वेद - मण्डल » 9; सूक्त » 62; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 24; मन्त्र » 1
अष्टक » 7; अध्याय » 1; वर्ग » 24; मन्त्र » 1
विषयः - अथ सेनाधीशः प्रशंस्यते।
पदार्थः -
(एते) अयं (आशवः) क्रियादक्षः (इन्दवः) सेनापतिः (पवित्रे अभि) स्वकीयप्रजार्थं (विश्वानि) सर्वविधान् (तिरः) द्विगुणान् (सौभगा) भोग्यपदार्थान् (असृग्रम्) उत्पादयति ॥१॥