ऋग्वेद - मण्डल 10/ सूक्त 120/ मन्त्र 1
ऋषिः - बृहद्दिव आथर्वणः
देवता - इन्द्र:
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः । स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमा॑: ॥
स्वर सहित पद पाठतत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यतः॑ । ज॒ज्ञे । उ॒ग्रः । त्वे॒षऽनृ॑म्णः । स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यम् । विश्वे॑ । मद॑न्ति । ऊमाः॑ ॥
स्वर रहित मन्त्र
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमा: ॥
स्वर रहित पद पाठतत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषऽनृम्णः । सद्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः ॥ १०.१२०.१
ऋग्वेद - मण्डल » 10; सूक्त » 120; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 1; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 1; मन्त्र » 1
विषयः - अत्र सूक्ते परमात्मना संसारो रचितस्तत्र प्रकाशकप्राकाश्यपिण्डानि धृतानि जडजङ्गमपदार्थाः सूचिताः तद्रचितेन वेदेन च ज्ञानं गृहीत्वा ब्रह्मानन्दं सांसारिकसुखं च भुञ्जते जनाः।
पदार्थः -
(भुवनेषु) उत्पन्नेषु भूतेषु (तत्-इत्-ज्येष्ठम्-आस) ज्येष्ठं तद् ब्रह्म पूर्वतो भवति वर्तते (यतः-उग्रः-त्वेषनृम्णः-जज्ञे) यतो ब्रह्मणः तीक्ष्णः प्रतापी ज्ञानप्रतापवान् वा दीप्तिनृम्णो दीप्त्या बलवान् जीवात्मा जायते (सद्यः-जज्ञानः) स सद्यो जायमान एव (शत्रून् निरिणाति) शत्रून् निरन्तरं हन्ति “निरिणाति-निरन्तरं हिनस्ति” [० १।६१।१३ दयानन्दः] यद्वा जीवात्मा ज्ञानेन नीचैर्नयति वा “ गतौ” [तुदादि०] (यम्-अनु विश्वे-ऊमाः-मदन्ति) यं सूर्यं जीवात्मानं वा लक्षयित्वा सर्वे रक्षणीया जीवा हृष्यन्ति ॥१॥