ऋग्वेद - मण्डल 10/ सूक्त 131/ मन्त्र 7
ऋषिः - सुकीर्तिः काक्षीवतः
देवता - इन्द्र:
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योतु ॥
स्वर सहित पद पाठतस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ । सः । सु॒त्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒त । यु॒यो॒तु॒ ॥
स्वर रहित मन्त्र
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेष: सनुतर्युयोतु ॥
स्वर रहित पद पाठतस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम । सः । सुत्रामा । स्वऽवान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुत । युयोतु ॥ १०.१३१.७
ऋग्वेद - मण्डल » 10; सूक्त » 131; मन्त्र » 7
अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 7
अष्टक » 8; अध्याय » 7; वर्ग » 19; मन्त्र » 7
पदार्थः -
(तस्य यज्ञियस्य सुमतौ) तस्य सङ्गमनीयस्य परमात्मनो राज्ञो वा कल्याण्यां मतौ (सौमनसे भद्रे स्याम) सुमनोभावे कल्याणरूपे भवेम (सः-सुत्रामा स्ववान्) स सुरक्षकः सामर्थ्यवान् (इन्द्रः) परमात्मा राजा वा (आरात्-चित्-द्वेषः सनुतः-युयोतु) दूरादपि द्वेष्टॄन् शत्रून् सर्वदा “सनुतः सर्वदा” [अव्ययार्थनिबन्धनं दयानन्दः] पृथक् करोतु ॥७॥