Loading...
ऋग्वेद मण्डल - 10 के सूक्त 165 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 2
    ऋषिः - कपोतो नैर्ऋतः देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम् छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ । अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्न॒: परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥

    स्वर सहित पद पाठ

    शि॒वः । क॒पोतः॑ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु॑ । अ॒ग्निः । हि । विप्रः॑ । जु॒षता॑म् । ह॒विः । नः॒ । परि॑ । हे॒तिः । प॒क्षिणी॑ । नः॒ । वृ॒ण॒क्तु॒ ॥


    स्वर रहित मन्त्र

    शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु । अग्निर्हि विप्रो जुषतां हविर्न: परि हेतिः पक्षिणी नो वृणक्तु ॥

    स्वर रहित पद पाठ

    शिवः । कपोतः । इषितः । नः । अस्तु । अनागाः । देवाः । शकुनः । गृहेषु । अग्निः । हि । विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु ॥ १०.१६५.२

    ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 2

    पदार्थः -
    (देवाः) जिगीषवो विद्वांसः (इषितः शिवः कपोतः) प्रेषितः कल्याणकरः वेशभाषाभिर्विचित्रः सन्देशवाहकः (नः-गृहेषु) अस्माकं गृहवासिषु प्रजाजनेषु तन्निमित्तमित्यर्थः (अनागाः-शकुनः-अस्तु) पापरहितः सुभाषणे शक्तो भवतु “शकुनः शक्तिमान्” [यजु० १८।५३ दयानन्दः] (अग्निः विप्रः) अग्रणी मेधावी विद्वान् (हविः-जुषताम्) सत्कारं भोजनादिकं सेवताम् (पक्षिणी हेतिः) परपक्षीया प्रहारकर्त्री सेना (नः-परिवृणक्तु) अस्मान् परित्यजतु-संग्रामं न करोतु ॥२॥

    इस भाष्य को एडिट करें
    Top