Loading...
ऋग्वेद मण्डल - 10 के सूक्त 175 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 175/ मन्त्र 3
    ऋषिः - ऊर्ध्वग्रावार्बुदः देवता - ग्रावाणः छन्दः - विराड्गायत्री स्वरः - षड्जः

    ग्रावा॑ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते॑ स॒जोष॑सः । वृष्णे॒ दध॑तो॒ वृष्ण्य॑म् ॥

    स्वर सहित पद पाठ

    ग्रावा॑णः । उप॑रेषु । आ । म॒ही॒यन्ते॑ । स॒ऽजोष॑सः । वृ॒ष्णे॒ । दध॑तः । वृष्ण्य॑म् ॥


    स्वर रहित मन्त्र

    ग्रावाण उपरेष्वा महीयन्ते सजोषसः । वृष्णे दधतो वृष्ण्यम् ॥

    स्वर रहित पद पाठ

    ग्रावाणः । उपरेषु । आ । महीयन्ते । सऽजोषसः । वृष्णे । दधतः । वृष्ण्यम् ॥ १०.१७५.३

    ऋग्वेद - मण्डल » 10; सूक्त » 175; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 33; मन्त्र » 3

    पदार्थः -
    (ग्रावाणः) विद्वांसः (सजोषसः) समानप्रीतियुक्ताः सन्तः (वृष्णे वृष्ण्यं दधतः) सुखवर्षकाय राज्ञे बलं धारयन्तः प्रयच्छन्तः (उपरेषु-आ-महीयन्ते) उपरमणीयपदेषु समन्तान्महत्त्वं प्राप्नुवन्ति ॥३॥

    इस भाष्य को एडिट करें
    Top