साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 180/ मन्त्र 3
इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥
स्वर सहित पद पाठइन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊँ॒ इति॑ । लो॒कम् ॥
स्वर रहित मन्त्र
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥
स्वर रहित पद पाठइन्द्र । क्षत्रम् । अभि । वामम् । ओजः । अजायथाः । वृषभ । चर्षणीनाम् । अप । अनुदः । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्यः । अकृणोः । ऊँ इति । लोकम् ॥ १०.१८०.३
ऋग्वेद - मण्डल » 10; सूक्त » 180; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 38; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 38; मन्त्र » 3
पदार्थः -
(चर्षणीनां वृषभ इन्द्र) मनुष्याणां मध्ये वृषभ इव बलवान् यद्वा मनुष्याणां सुखवर्षक राजन् ! त्वम् (क्षत्रं वामम्-ओजः-अभि-अजायथाः) प्रजानां क्षतस्य त्राणकरं वननीयं बलमभिलक्ष्य प्रसिद्धो भवसि (अमित्रयन्तं जनम्-अपानुदः) शत्रूयन्तं जनमपताडय नाशय (देवेभ्यः-उरु लोकम्-अकृणोः) दिव्यगुणवद्भ्यो दातृभ्यश्च विस्तीर्णं दर्शनीय सुखस्थानं कुरु-सम्पादय ॥३॥