Loading...
ऋग्वेद मण्डल - 10 के सूक्त 183 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 183/ मन्त्र 1
    ऋषिः - प्राजावान्प्राजापत्यः देवता - अन्वृचं यजमानयजमानपत्नीहोत्राशिषः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥

    स्वर सहित पद पाठ

    अप॑श्यम् । त्वा॒ । मन॑सा । चेकि॑तानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् । इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥


    स्वर रहित मन्त्र

    अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिं रराण: प्र जायस्व प्रजया पुत्रकाम ॥

    स्वर रहित पद पाठ

    अपश्यम् । त्वा । मनसा । चेकितानम् । तपसः । जातम् । तपसः । विऽभूतम् । इह । प्रऽजाम् । इह । रयिम् । रराणः । प्र । जायस्व । प्रऽजया । पुत्रऽकाम ॥ १०.१८३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 183; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 41; मन्त्र » 1

    पदार्थः -
    (त्व) हे ब्रह्मचारिन् ! त्वाम् (तपसः-जातं तपसः-विभूतम्) ब्रह्मचर्यरूपात् तपसः सम्पन्नं तथा ब्रह्मचर्यरूपात् तपसः पुष्टिवैभवप्राप्तम् (मनसा चेकितानम्-अपश्यम्) स्वमनसा स्वाभिप्रायं प्रज्ञापयन्तम् “चेकितानः प्रज्ञापयन्” [ऋ० ४।१४।२ दयानन्दः] पश्यामि (पुत्रकाम) हे पुत्रान् कामयमान ! (इह प्रजाम्-इह रयिं रराणः) अत्र गृहाश्रमे सन्ततिमस्मिन् गृहाश्रमे धनं मह्यं प्रयच्छन् (प्रजया प्रजायस्व) प्रजारूपेणोत्पन्नो भव ॥१॥

    इस भाष्य को एडिट करें
    Top