Loading...
ऋग्वेद मण्डल - 10 के सूक्त 191 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 191/ मन्त्र 1
    ऋषिः - संवननः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥

    स्वर सहित पद पाठ

    सम्ऽस॑म् । इत् । यु॒व॒से॒ । वृ॒ष॒न् । अग्ने॑ । विश्वा॑नि । अ॒र्यः । आ । इ॒ळः । प॒दे । सम् । इ॒ध्य॒से॒ । सः । नः॒ । वसू॑नि । आ । भ॒र॒ ॥


    स्वर रहित मन्त्र

    संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इळस्पदे समिध्यसे स नो वसून्या भर ॥

    स्वर रहित पद पाठ

    सम्ऽसम् । इत् । युवसे । वृषन् । अग्ने । विश्वानि । अर्यः । आ । इळः । पदे । सम् । इध्यसे । सः । नः । वसूनि । आ । भर ॥ १०.१९१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 191; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 49; मन्त्र » 1

    पदार्थः -
    (वृषन्-अग्ने) हे सुखवर्षक ! अग्रणायक ! परमात्मन् ! (अर्यः) त्वं स्वामी भवन् (विश्वानि इत्) सर्वाणि जडजङ्गमानि हि (सं सम् आ युवसे) सम्यक् समन्तात् सम्प्राप्तोऽसि ‘सम्’-इति द्विरुक्तिः पादपूरणे “समुपोदः पादपूरणे” [अष्टा० ८।१।६] अतः (इडः-पदे समिध्यसे) पृथिव्याः “इडा पृथिवीनाम” [निघ० १।१]  पार्थिवस्य देहस्य पदे हृदये यद्वा स्तुतिवाचः पदेऽध्यात्मयज्ञे सम्यक् दीप्यसे (सः-नः-वसूनि-आभर) स त्वमस्मभ्यं सुखस्य-वासकानि-धनानि प्रापय ॥१॥

    इस भाष्य को एडिट करें
    Top