ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 3
आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् । अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ॥
स्वर सहित पद पाठआ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् । अ॒ग्निः । वि॒द्वान् । सः । य॒ज॒त् । सः । इत् । ऊँ॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒याति ॥
स्वर रहित मन्त्र
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् । अग्निर्विद्वान्त्स यजात्सेदु होता सो अध्वरान्त्स ऋतून्कल्पयाति ॥
स्वर रहित पद पाठआ । देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्रऽवोळ्हुम् । अग्निः । विद्वान् । सः । यजत् । सः । इत् । ऊँ इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति ॥ १०.२.३
ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 3
पदार्थः -
(देवानाम्-अपि पन्थाम्) द्युस्थानभवानां चन्द्रादिग्रहोपग्रहाणां खल्वपि “देवः-द्युस्थानो भवतीति वा” [निरु० ७।१६] पन्थानं मार्गं गगनक्रमं पन्थानमिति स्थाने पन्थामिति छान्दसः प्रयोगः (आ-आगन्म) जानीयाम (यत्-शक्नवाम) यतो ज्ञातुं समर्था भवेम (तत्-अनु प्रवोढुम्) तदनुसरन्तः प्रवाहयितुं प्रचारयितुं कार्येऽनुष्ठातुमारभेमहि-इत्यर्थः (सः-अग्निः-विद्वान्) स एव सूर्योऽग्निर्वेदयन्-द्युस्थानानां ग्रहाणां मार्गं ज्ञापयन् सन् (यजात्) ज्योतिर्विद्यायां सङ्गमयेत्-‘अन्तर्गतणिजर्थः (स-इत्) सः “सुपां सुलुक्०” [अष्टा० ७।१।३९] इति सोर्लुक्, एव (होता) ज्योतिर्विज्ञानस्य सम्पादननिमित्तीभूतः (सः-अध्वरान् सः-ऋतून् कल्पयाति) सः प्राणान् “प्राणोऽध्वरः” [श० ७।३।१।५] ऋतूंश्च सम्पादयति ॥३॥