Loading...
ऋग्वेद मण्डल - 10 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 3/ मन्त्र 2
    ऋषिः - त्रितः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जाम् । ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥

    स्वर सहित पद पाठ

    कृ॒ष्णाम् । यत् । एनी॑म् । अ॒भि । वर्प॑सा । भूत् । ज॒नय॑न् । योषा॑म् । बृ॒ह॒तः । पि॒तुः । जाम् । ऊ॒र्ध्वम् । भा॒नुम् । सूर्य॑स्य । स्त॒भा॒यन् । दि॒वः । वसु॑ऽभिः । अ॒र॒तिः । वि । भा॒ति॒ ॥


    स्वर रहित मन्त्र

    कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥

    स्वर रहित पद पाठ

    कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयन् । योषाम् । बृहतः । पितुः । जाम् । ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुऽभिः । अरतिः । वि । भाति ॥ १०.३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 3; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 31; मन्त्र » 2

    पदार्थः -
    (बृहतः-पितुः-जाम्) महतो द्युलोकस्य जायमानामपत्यभूतां कन्यामुषसम् “द्यौर्मे पिता” [ऋ० १।१६४।३३] “पिता द्यौः” [तै० २।७।१५।३] “जा-अपत्यनाम” [निघं० २।२] (योषां जनयन्) सहयोगिनीं भार्यां सम्पादयन् (यत्-कृष्णाम्-एनीं वर्पसा-अभिभूत्) यदा कृष्णवर्णां रात्रिम् “कृष्णवर्णा रात्रिः” [निरु० २।२१] गमनशीलां नदीमिव वर्त्तमानाम् “एनी-नदीनाम” [निघ० १।१३] स्वतेजोरूपेण स सूर्योऽभिभवदति, तदा दिनं भवतीत्यर्थः, परन्तु (सूर्यस्य भानुम्-ऊर्ध्वं स्तभायन्) यदा स सूर्यः ‘प्रथमार्थे षष्ठी व्यत्ययेन’ स्वाभीष्टं “अजस्रेण भानुना दीद्यतमित्यजस्रेणार्चिषा दीप्यमानमित्याह” [श० ६।४।१।२] पृथिवीत उपरि स्तब्धं करोति तदा पृथिव्यां रात्रिर्भवति पुनरपि (अरतिः) सर्वत्र गमनकर्त्ता सूर्यः (दिवः-वसुभिः विभाति) द्युलोकस्य वासिभिर्नक्षत्रैर्वैपरीत्ये प्रकाशते हि “नक्षत्राणि चैते वसवः” [श० ११।६।३।६] ॥२॥

    इस भाष्य को एडिट करें
    Top