Loading...
ऋग्वेद मण्डल - 10 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 3/ मन्त्र 7
    ऋषिः - त्रितः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः । अ॒ग्निः सु॒तुक॑: सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग॑म्याः ॥

    स्वर सहित पद पाठ

    सः । आ । व॒क्षि॒ । महि॑ । नः॒ । आ । च॒ । स॒त्सि॒ । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिः । यु॒व॒त्योः । अ॒ग्निः । सु॒ऽतुकः॑ । सु॒त्ऽउके॑भिः । अश्वैः॑ । रभ॑स्वत्ऽभिः । रभ॑स्वान् । आ । इ॒ह । ग॒म्याः॒ ॥


    स्वर रहित मन्त्र

    स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः । अग्निः सुतुक: सुतुकेभिरश्वै रभस्वद्भी रभस्वाँ एह गम्याः ॥

    स्वर रहित पद पाठ

    सः । आ । वक्षि । महि । नः । आ । च । सत्सि । दिवःपृथिव्योः । अरतिः । युवत्योः । अग्निः । सुऽतुकः । सुत्ऽउकेभिः । अश्वैः । रभस्वत्ऽभिः । रभस्वान् । आ । इह । गम्याः ॥ १०.३.७

    ऋग्वेद - मण्डल » 10; सूक्त » 3; मन्त्र » 7
    अष्टक » 7; अध्याय » 5; वर्ग » 31; मन्त्र » 7

    पदार्थः -
    (सः अग्निः) स सूर्यरूपोऽग्निः, त्वम् (नः-महि-आवक्षि) अस्मभ्यं महनीयं सुखप्रकाशं प्रापयसि (युवत्योः-दिवः-पृथिव्योः) परस्परं मिश्रणधर्मवतोर्द्युलोकपृथिवीलोकयोर्मध्ये (अरतिः) स्वतेजसा गमनशीलः सन् (आसत्सि) आसीदसि-समन्तात् प्राप्तोऽसि (सुतुकः) सुतुकनः सुगमतया प्रापणयोग्यः सुप्राप्तव्यः (रभस्वान्) वेगवान् शीघ्र-प्रापणशक्तिमान् सन् (सुतुकेभिः-रभस्वद्भिः-अश्वैः) सुतुकनैः सुगमतया प्रापणयोग्यैः-सुप्राप्तव्यैस्तथा वेगवद्भिः-शीघ्रगमनशक्तिमद्भिर्व्याप्तै रश्मिभिः (इह-आगम्याः) अस्मिन् लोके समन्तात् प्राप्तो भवेः ॥७॥

    इस भाष्य को एडिट करें
    Top