ऋग्वेद - मण्डल 10/ सूक्त 4/ मन्त्र 3
शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना । धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥
स्वर सहित पद पाठशिशु॑म् । न । त्वा॒ । जेन्य॑म् । व॒र्धय॑न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा॑ना । धनोः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । हर्य॑म् । जगी॑षसे । प॒शुःऽइ॑व । अव॑ऽसृष्टः ॥
स्वर रहित मन्त्र
शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना । धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः ॥
स्वर रहित पद पाठशिशुम् । न । त्वा । जेन्यम् । वर्धयन्ती । माता । बिभर्ति । सचनस्यमाना । धनोः । अधि । प्रऽवता । यासि । हर्यम् । जगीषसे । पशुःऽइव । अवऽसृष्टः ॥ १०.४.३
ऋग्वेद - मण्डल » 10; सूक्त » 4; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 32; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 32; मन्त्र » 3
विषयः - विद्युदात्मनोऽग्नेर्वर्णनमुच्यते।
पदार्थः -
(त्वा) त्वां विद्युद्रूपमग्निम् (माता) एषा सर्वेषां प्राणिवनस्पतीनां निर्मात्री मातृभूता पृथिवी (सचनस्यमाना) स्वस्मिन् समवेतं करिष्यमाणा सती “षच-समवाये” [भ्वादिः] ‘ततः श्नं विकरणं मध्ये पतितं छान्दसम्’, यद्वा चनस्यमानैः-अन्नं सेवमानैः प्राणिभिः सह युक्ता—“चायतेरन्ने ह्रस्वश्च” [उणा० ४।२००] इति चायृधातोरसुनि तदन्तात् क्यचि च चनस्य इति नामधातुः, “चनस्यतम्-चनस् शब्दात् क्यच्प्रत्यये तदन्तान्नामधातोर्लोटि मध्यमस्य द्विवचने प्रयोगः” [ऋ० १।३।१ दयानन्दः] (जेन्यं शिशुं वर्धयन्ती न बिभर्ति) जयशीलं प्रभावकारिणं वत्सं शंसनीयं शोभनं वर्धयन्तीव धारयति (धनोः अधि प्रवता यासि) त्वं च विद्युद्रूपाग्ने ! धनोः-अधि-धन्वनि-अन्तरिक्षे सन् ‘धनुः-धन्वन्’ वैदिकसाहित्ये पर्यायत्वं भजेते “धन्वान्तरिक्षं धन्वन्त्यस्मादापः” [निरु० ५।५] “धन्वनाजिं जयेम” “धनुः शत्रोरपकामं कृणोति” [ऋ० ६।७५।२।, निरु० ९।१६] प्रवणेन निम्नेन मार्गेण गच्छसि वृष्टिनिपातनद्वारा, किं च (अवसृष्टः-पशुः-इव) बन्धनान्मुक्तः पशुरिव (हर्यन् जिगीषसे) मेघान् जेतुमिच्छसि-अतस्तान्-गच्छसि “हर्य गतिकान्त्योः” [भ्वादि०] ॥३॥