ऋग्वेद - मण्डल 10/ सूक्त 44/ मन्त्र 1
आ या॒त्विन्द्र॒: स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् । प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥
स्वर सहित पद पाठआ । या॒तु॒ । इन्द्रः॑ । स्वऽप॑तिः । मदा॑य । यः । धर्म॑णा । तू॒तु॒जा॒नः । तुवि॑ष्मान् । प्र॒ऽत्व॒क्षा॒णः । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता । वृष्ण्ये॑न ॥
स्वर रहित मन्त्र
आ यात्विन्द्र: स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् । प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥
स्वर रहित पद पाठआ । यातु । इन्द्रः । स्वऽपतिः । मदाय । यः । धर्मणा । तूतुजानः । तुविष्मान् । प्रऽत्वक्षाणः । अति । विश्वा । सहांसि । अपारेण । महता । वृष्ण्येन ॥ १०.४४.१
ऋग्वेद - मण्डल » 10; सूक्त » 44; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 26; मन्त्र » 1
अष्टक » 7; अध्याय » 8; वर्ग » 26; मन्त्र » 1
विषयः - अत्र सूक्ते ‘इन्द्र’ शब्देन परमेश्वरो राजा च गृह्येते। परमेश्वरः स्वोपासकानां कामादीन् नाशयति, मोक्षे गृह्णाति संसारे च रक्षति सुखं प्रयच्छति। एवं राजा स्वप्रजानां बाधकान् नाशयति ताभ्यः स्वराष्ट्रे सुखं प्रयच्छति रक्षति च ता इति प्राधान्येन वर्णनमस्ति।
पदार्थः -
(इन्द्रः) ऐश्वर्यवान् परमात्मा राजा वा (स्वपतिः) स्वभूतस्य जगतो यद्वा स्वभूतस्य राष्ट्रस्य स्वामी (मदाय-आयातु) उपासकानाम् आनन्दप्रदानाय साक्षाद् भवतु, प्रजाजनानामानन्ददानाय राजपदे प्राप्नोतु (यः-धर्मणा) यः खलु धारकगुणेन न्यायगुणेन वा (तूतुजानः) उपासकानाददानः, प्रजाजनानाददानः स्वीकुर्वन् “तुज हिंसा-बलादाननिकेतनेषु” [चुरादि०] “ततः कानच् प्रत्ययश्छान्दसः” (तुविष्मान्) प्रशस्तवृद्धिशक्तिमान् “तु गतिवृद्धिहिंसासु” [अदादि०] “ततो बाहुलकादौणादिक इसि प्रत्ययः, स च कित्” [ऋ० १।५५।१ दयानन्दः] ‘प्रशंसार्थे मतुप्०’ तथा (विश्वा सहांसि) सर्वाणि-उपासकानां कामादिशत्रुबलानि “सहः-बलनाम” [निघ० २।९] (अपारेण महता वृष्ण्येन) केनापि न पारयितुं योग्येन महता नाशनबलेन (प्रत्वक्षाणः) नाशयन् साक्षाद् भवतु, राजपदं प्राप्नोतु वा ॥१॥