ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 11
विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुत॑: । स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥
स्वर सहित पद पाठविश्वे॑ । य॒ज॒त्राः॒ । अधि॑ । वो॒च॒त॒ । ऊ॒तये॑ । त्राय॑ध्वम् । नः॒ । दुः॒ऽएवा॑याः । अ॒भि॒ऽह्रुतः॑ । स॒त्यया॑ । वः॒ । दे॒वऽहू॑त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव॑से । स्व॒स्तये॑ ॥
स्वर रहित मन्त्र
विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुत: । सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥
स्वर रहित पद पाठविश्वे । यजत्राः । अधि । वोचत । ऊतये । त्रायध्वम् । नः । दुःऽएवायाः । अभिऽह्रुतः । सत्यया । वः । देवऽहूत्या । हुवेम । शृण्वतः । देवाः । अवसे । स्वस्तये ॥ १०.६३.११
ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 11
अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 5; मन्त्र » 1
पदार्थः -
(विश्वे यजत्राः) हे सर्वविद्यासु प्रविष्टाः-सङ्गमनीया विद्वांसः ! (ऊतये) रक्षायै (अधि वोचत) शिष्यत्वेनाधिकृत्यास्मानुपदिशत (दुरेवायाः-अभिह्रुतः-नः-त्रायध्वम्) दुर्दुःखं प्रापयति या सा दुरेवा तस्याः कुटिलगतिकाया मनोभावनायाः-अस्मान् रक्षत (देवाः) हे विद्वांसः ! (शृण्वतः-वः) प्रार्थनां शृण्वतो युष्मान् (देवहूत्या सत्यया) देवान् यया ह्वयन्ते प्रार्थयन्ते तया शुद्ध्या स्तुत्या (अवसे स्वस्तये हुवेम) रक्षणाय कल्याणाय च प्रार्थयामहे ॥११॥