अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 1
अच्छा॑ म॒ इन्द्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत। परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ॥
स्वर सहित पद पाठअच्छ॑ । मे॒ । इन्द्र॑म् । म॒तय॑: । स्व॒:ऽविद॑: । स॒ध्रीची॑: । विश्वा॑: । उ॒श॒ती: । अ॒नू॒ष॒त॒ ॥ परि॑ । स्व॒ज॒न्ते॒ । जन॑य: । यथा॑ । पति॑म् । मर्य॑म् । न । शु॒न्ध्युम् । म॒घऽवा॑नम् । ऊ॒तये॑ ॥१७.१॥
स्वर रहित मन्त्र
अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत। परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥
स्वर रहित पद पाठअच्छ । मे । इन्द्रम् । मतय: । स्व:ऽविद: । सध्रीची: । विश्वा: । उशती: । अनूषत ॥ परि । स्वजन्ते । जनय: । यथा । पतिम् । मर्यम् । न । शुन्ध्युम् । मघऽवानम् । ऊतये ॥१७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 1
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(स्वर्विदः) सुख पहुँचानेवाली, (सध्रीचीः) आपस में मिली हुई, (उशतीः) कामना करती हुई, (विश्वाः) सब (मे) मेरी (मतयः) बुद्धियों ने (इन्द्रम्) इन्द्र [महाप्रतापी राजा] को (अच्छ) अच्छे प्रकार से (अनूषत) सराहा है और (ऊतये) रक्षा के लिये [ऐसे, उसे] (परि ष्वजन्ते) सब ओर घेरती है, (यथा) जैसे (जनयः) पत्नियाँ (पतिम्) [अपने अपने] पति को, और (न) जैसे (शुन्ध्युम्) शुद्ध आचारवाले, (मघवानम्) महाधनी (मर्यम्) मनुष्य को [लोग घेरते हैं] ॥१॥
भावार्थ - मनुष्यों को योग्य है कि धर्मात्मा पराक्रमी मनुष्य का आश्रय लेकर रक्षा करें, जैसे स्त्रियाँ अपने पतियों का, और सब लोग सदाचारी कमाऊ जन का आश्रय लेते हैं ॥१॥
टिप्पणी -
मन्त्र १-११ ऋग्वेद में है-१०।४३।१-११ ॥ १−(अच्छ) सुष्ठु (मे) मम (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (मतयः) बुद्धयः (स्वर्विदः) सुखस्य लम्भयित्र्यः (सध्रीचीः) अञ्चु गतिपूजनयोः-क्विन्, ङीप्। सहाञ्चनाः। परस्परं संगताः (विश्वाः) सर्वाः (उशतीः) कामयमानाः (अनूषत) णु स्तुतौ-लुङ्। आत्मनेपदत्वम् उकारस्य दीर्घत्वं च छान्दसम्। अस्तुवन् (परि) सर्वतः (स्वजन्ते) आलिङ्गन्ति। वेष्टन्ते (जनयः) पत्न्यः (यथा) (पतिम्) स्वस्वभर्तारम् (मर्यम्) मनुष्यम् (न) यथा (शुन्ध्युम्) अ० १३।२।२४। शुन्ध विशुद्धौ-युच्। शुद्धाचारवन्तम् (मघवानम्) महाधनिनम् (ऊतये) रक्षणाय ॥