अथर्ववेद - काण्ड 20/ सूक्त 19/ मन्त्र 4
पु॑रुष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि। इन्द्र॑स्य चर्षणी॒धृतः॑ ॥
स्वर सहित पद पाठपु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभि: । श॒तेन॑ । म॒ह॒या॒म॒सि॒ । इन्द्र॑स्य । च॒र्ष॒णि॒ऽधृत॑: ॥१९.४॥
स्वर रहित मन्त्र
पुरुष्टुतस्य धामभिः शतेन महयामसि। इन्द्रस्य चर्षणीधृतः ॥
स्वर रहित पद पाठपुरुऽस्तुतस्य । धामऽभि: । शतेन । महयामसि । इन्द्रस्य । चर्षणिऽधृत: ॥१९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 4
विषय - राजा और प्रजा के गुणों का उपदेश।
पदार्थ -
(शतेन) असंख्य (धामभिः) प्रभावों से (पुरुष्टुतस्य) बहुतों करके बड़ाई किये गये और (चर्षणीधृतः) मनुष्यों के पोषण करनेवाले (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले राजा] का (महयामसि) हम सत्कार करते हैं ॥४॥
भावार्थ - राजा और प्रजा परस्पर उन्नति करके सुख बढ़ावें ॥४॥
टिप्पणी -
४−(पुरुष्टुतस्य) बहुभिः स्तुतस्य (धामभिः) धारणसामर्थ्यैः। प्रभावैः (शतेन) असख्यैः (महयामसि) पूजनं सत्कारं कुर्मः (इन्द्रस्य) परमैश्वर्यवतो राज्ञः (चर्षणीधृतः) चर्षणीनां मनुष्याणां धारकस्य पोषकस्य ॥