अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 4
आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया॑। सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नरः॑ ॥
स्वर सहित पद पाठआत् । अङ्गि॑रा: । प्र॒थ॒मम् । द॒धि॒रे॒ । वय॑: । इ॒द्धऽअ॑ग्नय: । शम्या॑ । ये । सु॒ऽकृ॒त्यया॑ ॥ सर्व॑म् । प॒णे: । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽवन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नर॑: ॥२५.४॥
स्वर रहित मन्त्र
आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया। सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥
स्वर रहित पद पाठआत् । अङ्गिरा: । प्रथमम् । दधिरे । वय: । इद्धऽअग्नय: । शम्या । ये । सुऽकृत्यया ॥ सर्वम् । पणे: । सम् । अविन्दन्त । भोजनम् । अश्वऽवन्तम् । गोऽमन्तम् । आ । पशुम् । नर: ॥२५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 4
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
(ये) जिन (इद्धाग्नयः) अग्नि के प्रकाश करनेवाले (अङ्गिराः) अङ्गिराओं [ज्ञानी ऋषियों] ने (प्रथमम्) श्रेष्ठ (वयः) जीवन को (सुकृत्यया) सुन्दर रीति से करने योग्य (शम्या) शान्तिदायक कर्म से (दधिरे) धारण किया था, (आत्) तब ही (नरः) उन नेताओं ने (पणेः) उद्यम से (सर्वम्) सब (भोजनम्) भोजन [पालन साधन धन अन्न आदि], (अश्वावन्तम्) उत्तम घोड़ोंवाले (आ) और (गोमन्तम्) उत्तम गौओंवाले (पशुम्) पशुसमूह को (सम्) अच्छे प्रकार (अविन्दन्त) पाया है ॥४॥
भावार्थ - जो अग्निविद्या में कुशल, पुरुषार्थी, विज्ञानी लोग धार्मिक कर्म करके उत्तम जीवन बनाते हैं, वे ही उद्योग करके सब प्रकार से सुख पाते हैं ॥४॥
टिप्पणी -
४−(आत्) अनन्तरम् (अङ्गिराः) अ० १९।३४।। अगि गतौ-किरच् नित्। विज्ञानिनः। ऋषयः (प्रथमम्) श्रेष्ठम् (दधिरे) धारितवन्तः (वयः) जीवनम् (इद्धाग्नयः) प्रकाशिताग्नयः। अग्निविद्याकुशलाः (शम्या) शमु उपशमे-इन्, ङीप्। शान्तिप्रदेन कर्मणा-निघ० २।१ (ये) (सुकृत्यया) शोभनकर्तव्ययुक्तया (सर्वम्) (पणेः) पण व्यवहारे स्तुतौ च-इन्। उद्योगात् (सम्) सम्यक् (अविन्दन्त) अलभन्त (भोजनम्) धननाम-निघ० २।१०। भोजनसाधनं धनान्नादिकम् (अश्वावन्तम्) म० १। प्रशस्ततुरङ्गयुक्तम् (गोमन्तम्) उत्तमधेनुयुक्तम् (आ) समुच्चये (पशुम्) पशुसमूहम् (नरः) नेतारः ॥