अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 5
तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः। नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑ च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥
स्वर सहित पद पाठतव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुर॑: । न॒व॒तिम् । च॒ । स॒द्य: ॥ नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षी॒: । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥३७.५॥
स्वर रहित मन्त्र
तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः। निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥
स्वर रहित पद पाठतव । च्यौत्नानि । वज्रऽहस्त । तानि । नव । यत् । पुर: । नवतिम् । च । सद्य: ॥ निऽवेशने । शतऽतमा । अविवेषी: । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥३७.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 5
विषय - राजा और प्रजा के धर्म का उपदेश।
पदार्थ -
(वज्रहस्त) हे हाथों में वज्र रखनेवाले ! (ते) तेरे (तानि) वे (च्यौत्नानि) बल हैं, (यत्) कि (सद्यः) तुरन्त (नव) नव (च) और (नवतिम्) नब्बे [निन्नानवे] (पुरः) नगरों में और (निवेशने) छावनी के बीच (शततमा) सौवें [नगर] में (अविवेषीः) तू व्याप गया है, (च) और (वृत्रम्) रोकनेवाले शत्रु को (अहन्) तूने मारा है (उत) और (नमुचिम्) न छोड़ने योग्य डाकू को (अहन्) मारा है ॥॥
भावार्थ - राजा अपनी उत्तम सेना के द्वारा वैरी के सब नगरों और राजधानी को अधीन करके शत्रुओं को मारे ॥॥
टिप्पणी -
−(नव) (च्यौत्नानि) जनिदाच्युसृवृ०। उ०४।१०४। च्युङ् गतौ-त्नण् प्रत्ययः। बलानि-निघ०२।९। (वज्रहस्त) हे शस्त्रपाणे (तानि) प्रसिद्धानि (नवनवतिम्) एकोनशतसंख्याकाः (पुरः) नगर्यः (च) (सद्यः) शीघ्रम् (निवेशने) निवेशे। सेनास्थितिस्थाने (शततमा) नित्यं शतादिमासार्ध०। पा०।२।७। डटस्तमडागमः। शततमीम्। शतसंख्यापूरिकां पुरीम् (अविवेषीः) विष्लृ व्याप्तौ-यङ्लुगन्ताल्लुङि। व्याप्तवानसि (अहन्) मध्यमपुरुषस्य प्रथमपुरुषः। अहः। हतवानसि (च) (वृत्रम्) आवरकं शत्रुम् (नमुचिम्) अ०२०।२१।७। अमोचनीयम्। दण्डनीयम् (उत) अपि च (अहन्) हतवानसि ॥