अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 1
इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु। नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ॥
स्वर सहित पद पाठइन्द्र॑म् । अ॒हम् । व॒णिज॑म् । चो॒द॒या॒मि॒ । स: । न॒: । आ । ए॒तु॒ । पु॒र॒:ऽए॒ता । न॒: । अ॒स्तु॒ । नु॒दन् । अरा॑तिम् । प॒रि॒ऽप॒न्थिन॑म् । मृ॒गम् । स: । ई॒शा॑न: । ध॒न॒ऽदा: । अ॒स्तु॒ । मह्य॑म् ॥१५.१॥
स्वर रहित मन्त्र
इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु। नुदन्नरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥
स्वर रहित पद पाठइन्द्रम् । अहम् । वणिजम् । चोदयामि । स: । न: । आ । एतु । पुर:ऽएता । न: । अस्तु । नुदन् । अरातिम् । परिऽपन्थिनम् । मृगम् । स: । ईशान: । धनऽदा: । अस्तु । मह्यम् ॥१५.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 1
विषय - व्यापार के लाभ का उपदेश।
पदार्थ -
(अहम्) मैं (इन्द्रम्) बड़े ऐश्वर्यवाले (वणिजम्) वणिक् को (चोदयामि) आगे बढ़ाता हूँ, (सः) वह (नः) हममें (एतु) आवे और (नः) हमारा (पुरएता) अगुआ (अस्तु) होवे। (अरातिम्) वैरी, (परिपन्थिनम्) डाकू और (मृगम्) वनैले पशु को (नुदन्) रगेदता हुआ (सः) वह (ईशानः) समर्थ पुरुष (मह्यम्) मुझे (धनदाः) धन देनेवाला (अस्तु) होवे ॥१॥
भावार्थ - मनुष्य व्यापारकुशल पुरुष को अपना मुखिया बनाकर वाणिज्य और मार्ग की ऊँच-नीच समझकर वाणिज्य में धन लगाने से लाभ उठाते हैं ॥१॥
टिप्पणी -
१−(इन्द्रम्) ऐश्वर्यवन्तं पुरुषम्। (वणिजम्)। षणेरिज्यादेश्च वः। उ० २।७०। इति षण व्यवहारे-इजि, षस्य वः। व्यापारिणम्। (चोदयामि)। प्रेरयामि। प्रवर्तयामि। (नः)। अस्मान्। (ऐतु)। आगच्छतु। (पुरएता)। पुरस्+इण् गतौ-तृच्। पुरोगन्ता। अग्रगामी। (नः)। अस्माकम्। (नुदन्)। णुद प्रेरणे-शतृ। प्रेरयन्। अपगमयन्। (अरातिम्)। अ० १।१८।१। शत्रुम्। (परिपन्थिनम्)। अ० १।२७।१। पर्यवस्थातारं मार्गनिरोधकं चोरम्। (मृगम्)। मृग अन्वेषणे-क। मृगयते अन्वेषयति तृणादिकम् पशुम्। वन्यपशुम्। (ईशानः)। ईश ऐश्वर्ये-शानच्। ईश्वरः। नियन्ता। (धनदाः)। आतो मनिन्क्वनि०। पा० ३।२।७४। इति धन+ददातेः-विच्। वाणिज्यलाभरूपधनप्रदाता। (मह्यम्)। वणिजे ॥